पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

 

ऋषि

संदर्भ
*अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत। स देवाँ एह वक्षति ॥ - ऋग्वेद १.१.२

*आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब। नव्यमायुः प्र सू तिर कृधी सहस्रमामृषिम् ॥ - ऋ. १.१०.११

*सं माग्ने वर्चसा सृज सं प्रजया समायुषा। विद्युर्मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥ - ऋ.१.२३.२४

*त्वमग्ने प्रथमो अङ्गिरा ऋषिर्देवो देवानामभवः शिवः सखा। - ऋ. १.३१.१

*इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरात्। आपिः पिता प्रमतिः सोम्यानां भृमिरस्यृषिकृन् मर्त्यानाम् ॥ - ऋ. १.३१.१६

*ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥ - ऋ. १.३९.१०

*ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि। सा नः स्तोमाँ अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥ - ऋ. १.४८.१४

*ऋषिर्न स्तुभ्वा, विक्षु प्रशस्तो वाजी न प्रीतो, वयो दधाति। - ऋ. १.६६.२

*इन्द्रमिद्धरी वहतो ऽप्रतिधृष्टशवसम्। ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणाम् ॥ - ऋ. १.८४.२

*इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाह्ड ऋषिरह्वदूतये। रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥ - ऋ. १.१०६.६

*ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन। मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥ अश्वं न गूह्डमश्विना दुरेवैर्ऋषिं नरा वृषणा रेभमप्सु। सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि ॥ - ऋ. १.११७.३-४

*अन्वेनं विप्रा ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् ॥ - ऋ. १.१६२.७

*साकंजानां सप्तथमाहुरेकजं षळिद् यमा ऋषयो देवजा इति। तेषामिष्टानि विहितानि धामशः स्थात्रे रेजन्ते विकृतानि रूपशः ॥ - ऋ. १.१६४.१५

*अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिच्छमानः। उभौ वर्णावृषिरुग्रः पुपोष सत्या देवेष्वाशिषो जगाम ॥ - ऋ. १.१७९.६

*अवोचाम निवचनान्यस्मिन् मानस्य सूनुः सहसाने अग्नौ। वयं सहस्रमृषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् ॥ - ऋ. १.१८९.८

*तुभ्यं स्तोका घृतश्चुतो ऽग्ने विप्राय सन्त्य। ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव ॥ - ऋ.३.२१.३

*कुविन्म ऋषिं पपिवांसं सुतस्य कुविन्मे वस्वो अमृतस्य शिक्षाः ॥ - ऋ. ३.४३.५

*महाँ ऋषिर्देवजा देवजूतो ऽस्तभ्नात् सिन्धुमर्णवं नृचक्षाः। - ऋ. ३.५३.९

*देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु ॥ - ऋ.३.५३.१०

*वि यो ररप्श ऋषिभिर्नवेभिर्वृक्षो न पक्वः सृण्यो न जेता। - ऋ. ४.२०.५

*अहं मनुरभवं सूर्यश्चाऽहं कक्षीवाँ ऋषिरस्मि विप्रः। - ऋ. ४.२६.१

*स वाज्यर्वा स ऋषिर्वचस्यया स शूरो अस्ता पृतनासु दुष्टरः। स रायस्पोषं स सुवीर्यं दधे यं वाजो विभ्वाf ऋभवो यमाविषुः ॥ - ऋ. ४.३६.६

*अस्माकमत्र पितरस्त आसन् त्सप्त ऋषयो दोर्गहे बध्यमाने। - ऋ. ४.४२.८

*तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥ - ऋ. ४.५०.१

*अर्चन्ति त्वा मरुतः पूतदक्षास्त्वमेषामृषिरिन्द्रासि धीरः ॥ - ऋ. ५.२९.१

*मह्ना रायः संवरणस्य ऋषेर्व्रजं न गावः प्रयता अपि ग्मन् ॥ - ऋ. ५.३३.१०

*ज्यायांसमस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते। - ऋ. ५.४४.८

*य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः। तमृषे मारुतं गणं नमस्या रमया गिरा ॥ - ऋ. ५.५२.१३

*अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा। दिवो वा धृष्णव ओजसा स्तुता धीभिरिषण्यत ॥ - ऋ. ५.५२.१४

*न स जीयतो मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति। नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा सुषूदथ ॥ - ऋ. ५.५४.७

*यूयं रयिं मरुतः स्पार्हवीरं यूयमृषिमवथ सामविप्रम्। - ऋ. ५.५४.१४

*आचुच्युवुर्दिव्यं कोशमेत ऋषे रुद्रस्य मरुतो गृणानाः ॥ - ऋ. ५.५९.८

*मा मघोनः परि ख्यतं मो अस्माकमृषीणां गोपीथे न उरुष्यतम् ॥ - ऋ. ५.६५.६

*तदृतं पृथिवि बृहच्छ्रवएष ऋषीणाम्। ज्रयसानावरं पृथ्वति क्षरन्ति यामभिः ॥ - ऋ. ५.६६.५

*स्तोता वामश्विनावृषिः स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवम् ॥ - ऋ. ५.७५.१

*भीताय नाधमानाय ऋषये सप्तवध्रये। मायाभिरश्विना युवं वृक्षं सं च वि चाचथः ॥ - ऋ. ५.७८.६

*अग्निरिद्धि प्रचेता अग्निर्वेधस्तम ऋषिः। अग्निं होतारमीळते यज्ञेषु मनुषो विशः ॥ - ऋ. ६.१४.२

*तमु त्वा दध्यङ्ङृषिः पुत्र ईधे अथर्वणः। वृत्रहणं पुरंदरम् ॥ - ऋ. ६.१६.१४

*पुरा नूनं च स्तुतय ऋषीणां पस्पृध्र इन्द्रे अध्युक्थार्का ॥ - ऋ. ६.३४.१

*यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वावृधे गृणतामृषीणाम् ॥ - ऋ. ६.४४.१३

* ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः। - ऋ. ७.२२.९

*हवं त इन्द्र महिमा व्यानड् ब्रह्म यत् पासि शवसिन्नृषीणाम्। - ऋ. ७.२८.२

*उतो घा ते पुरुष्या इदासन् येषां पूर्वेषामशृणोर्ऋषीणाम्। - ऋ. ७.२९.४

*सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम्। ततो ह मान उदियाय मध्यात् ततो जातमृषिमाहुर्वसिष्ठम् ॥ - ऋ. ७.३३.१३

*चनिष्टं देवा ओषधीष्वप्सु यद्योग्या अश्नवैथे ऋषीणाम्। पुरूणि रत्ना दधतौ न्यस्मे अनु पूर्वाणि चख्यथुर्युगानि ॥ शुश्रुवांसा चिदश्विना पुरूण्यभि ब्रह्माणि चक्षाथे ऋषीणाम्। प्रति प्र यातं वरमा जनायाऽस्मे वामस्तु सुमतिश्चनिष्ठा ॥ - ऋ. ७.७०.४-५

*ऋषिष्टुता जरयन्ती मघोन्युषा उच्छति वह्निभिर्गृणाना ॥ - ऋ. ७.७५.५

*वसिष्ठं ह वरुणो नाव्याधादृषिं चकार स्वपा महोभिः। स्तोतारं विप्रः सुदिनत्वे अह्नां यान्नु द्यावस्ततनन् यादुषासः ॥ - ऋ. ७.८८.४

*शिप्रिन्नृषीवः शचीवो नायमच्छा सधमादम् ॥ - ऋ. ८.२.२८

*अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे। सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ - ऋ. ८.३.४

*कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते। कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवन्त आ गमः ॥ - ऋ. ८.३.१४

*षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवामृषिः ॥ - ऋ. ८.४.२०

*ये त्वामिन्द्र न तुष्टुवुर्ऋषयो ये च तुष्टुवुः। ममेद् वर्धस्व सुष्टुतः ॥ - ऋ. ८.६.१२

*ऋषिर्हि पूर्वजा अस्येक ईशान ओजसा। इन्द्र चोष्कूयसे वसु ॥ - ऋ. ८.६.४१

*यच्चिद्धि वां पुर ऋषयो जुहूरऽवसे नरा। आ यातमश्विना गतमुपेमां सुष्टुतिं मम ॥ - ऋ. ८.८.६

*किमन्ये पर्यासते ऽस्मत् स्तोमेभिरश्विना। पुत्रः कण्वस्य वामृषिर्गीर्भिर्वत्सो अवीवृधत् ॥ - ऋ. ८.८.८

*यो वां नासत्यावृषिर्गीर्भिर्वत्सो अवीवृधत्। तस्मै सहस्रनिर्णिजमिषं धत्तं घृतश्चुतम् ॥ - ऋ. ८.८.१५

*आ नूनमश्विनोर्ऋषिः स्तोमं चिकेत वामया। आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥ - ऋ. ८.९.७

*यद्  वां कक्षीवाँ उत यद्व्यश्व ऋषिर्यद् वां दीर्घतमा जुहाव। पृथी यद्  वां वैन्यः सादनेष्वेवेदतोv अश्विना चेतयेथाम् ॥ - ऋ. ८.९.१०

*वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिरूतिभिः। धुक्षस्व पिप्युषीमिषमवा च नः ॥ - ऋ. ८.१३.२५

*इन्द्रो ब्रह्मेन्द्र ऋषिरिन्द्रः पुरू पुरुहूतः। महान् महीभिः शचीभिः ॥ - ऋ. ८.१६.७

*व्यश्वस्त्वा वसुविदमुक्षण्युरप्रीणादृषिः। महो राये तमु त्वा समिधीमहि ॥ - ऋ. ८.२३.१६

*नूनमर्च विहायसे स्तोमेभिः स्थूरयूपवत्। ऋषे वैयश्व दम्यायाग्नये ॥ - ऋ. ८.२३.२४

*अश्विना स्वृषे स्तुहि कुवित्ते श्रवतो हवम्। नेदीयसः कूळयातः पणीfरुत ॥ - ऋ. ८.२६.१०

*सहस्राण्यसिषासद् गवामृषिस्त्वोतो दस्यवे वृकः ॥ - ऋ. ८.५१.२

*य उक्थेभिर्न विन्धते चिकिद्य ऋषिचोदनः। इन्द्रं तमच्छा वद नव्यस्या मत्यरिष्यन्तं न भोजसे ॥ - ऋ.८.५१.३

*इन्द्रावरुणा यदृषिभ्यो मनीषां वाचो मतिं श्रुतमदत्तमग्रे। - ऋ. ८.५९.६

*भूरिभिः समह ऋषिभिर्बर्हिष्मद्भिः स्तविष्यसे। यदित्थमेकमेकमिच्छर वत्सान् पराददः ॥ - ऋ. ८.७०.१४

*अयं कृत्नुरगृभीतो विश्वजिदुद्भिदित् सोमः। ऋषिर्विप्रः काव्येन ॥ - ऋ. ८.७९.१

*पारावतं यत् पुरुसंभृतं वस्वपावृणोः शरभाय ऋषिबन्धवे ॥ - ऋ. ८.१००.६

*प्र वाजमिन्दुरिष्यति सिषासन् वाजसा ऋषिः। व्रता विदान आयुधा ॥ - ऋ. ९.३५.४

*अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः। पयः सहस्रसामृषिम् ॥ - ऋ. ९.५४.१

*तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे। ऋषीणां सप्त धीतिभिः ॥ - ऋ. ९.६२.१७

*अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः। तमीमहे महागयम् ॥ - ऋ.९.६६.२०

*यः पावमानीरध्येत्यृषिभिः संभृतं रसम्। सर्वं स पूतमश्नाति स्वदितं मातरिश्वना ॥ पावमानीर्यो अध्येत्यृषिभिः संभृतं रसम्। तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् ॥ - ऋ. ९.६७.३१-३२

*त्वां मृजन्ति दश योषणः सुतं सोम ऋषिभिर्मतिभिर्धीतिभिर्हितम्। अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतो वाजमा दर्षि सातये ॥ - ऋ. ९.६८.७

*विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिमृषिषाळवीवशत्। यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः ॥ - ऋ. ९.७६.४

*प्रान्तर्ऋषयः स्थाविरीरसृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥ - ऋ. ९.८६.४

*ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन। स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम् ॥ - ऋ. ९.८७.३

*अच्छा नृचक्षा असरत् पवित्रे नाम दधानः कविरस्य योनौ। सीदन् होतेव सदने चमूषूपेमग्मन्नृषयः सप्त विप्राः ॥ - ऋ. ९.९२.२

*ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्। श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ॥ - ऋ. ९.९६.६

*ऋषिमना य ऋषिकृत् स्वर्षाः सहस्रणीथः पदवीः कवीनाम्। तृतीयं धाम महिषः सिषासन् त्सोमो विराजमनु राजति ष्टुप् ॥ - ऋ. ९.९६.१८

*अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः। अभि येन द्रविणमश्नवामाऽभ्यार्षेयं जमदग्निवन्नः ॥ - ऋ. ९.९७.५१

*परि कोशं मधुश्चुतमव्यये वारे अर्षति। अभि वाणीर्ऋषीणां सप्त नूषत ॥ - ऋ. ९.१०३.३

*सोमो मीढ्वान् पवते गातुवित्तम ऋषिर्विप्रो विचक्षणः। त्वं कविरभवो देववीतम आ सूर्यं रोहयो दिवि ॥ -  ऋ. ९.१०७.७

*ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन् गिरः। सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परि स्रव ॥ - ऋ. ९.११४.२

*देवेभ्यः कमवृणीत मृत्युं प्रजायै कममृतं नावृणीत। बृहस्पतिं यज्ञमकृण्वत ऋषिं प्रियां यमस्तन्वं प्रारिरेचीत् ॥ - ऋ. १०.१३.४

*कुह श्रुत इन्द्रः कस्मिन्नद्य जने मित्रो न श्रूयते। ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ॥ - ऋ. १०.२२.१

*माकिर्न एना सख्या वि यौषुस्तव चेन्द्र विमदस्य च ऋषेः। विद्मा हि ते प्रमतिं देव जामिवदस्मे ते सन्तु  सख्या शिवानि ॥ - ऋ. १०.२३.७

*प्रत्यर्धिर्यज्ञानामश्वहयो रथानाम्। ऋषिः स यो मनुर्हितो विप्रस्य यावयत्सखः ॥ - ऋ. १०.२६.५

*वृक्षेवृक्षे नियता मीमयद्गौस्ततो वयः प्र पतान् पूरुषादः। अथेदं विश्वं भुवनं भयात इन्द्राय सुन्वदृषये च शिक्षत् ॥ - ऋ. १०.२७.२२

*आववर्तततीरध नु द्विधारा गोषुयुधो न नियवं चरन्तीः। ऋषे जनित्रीर्भुवनस्य पत्नीरपो वन्दस्व सुवृधः सयोनीः ॥ - ऋ. १०.३०.१०

*कुरुश्रवणमावृणि राजानं त्रासदस्यवम्। मंहिष्ठं वाघतामृषिः। - ऋ. १०.३३.४

*अस्ताव्यग्निर्नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः। अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् ॥ - ऋ. १०.४५.१२

*क उ नु ते महिमनः समस्याऽस्मत् पूर्व ऋषियोऽन्तमापुः। यन्मातरं च पितरं च साकमजनयथास्तन्वः स्वायाः ॥ - ऋ. १०.५४.३

*अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस्तच्छृणोतन। सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥ विरूपास इदृषयस्त इद्गम्भीरवेपसः। ते अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे ॥ - ऋ. १०.६२.४-५

*वसिष्ठासः पितृवद्वाचमक्रत देवाँ ईळाना ऋषिवत्स्वस्तये। प्रीता इव ज्ञातयः काममेत्याऽस्मे देवासोऽव धूनुता वसु ॥ - ऋ. १०.६६.१४

*त्वं जघन्थ नमुचिं मखस्युं दासं कृण्वान ऋषये विमायम्। त्वं चकर्थ मनवे स्योनान् पथो देवत्राञ्जसेव यानान् ॥ - ऋ. १०.७३.७

*वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः। अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान् निधयेव बद्धान् ॥ - ऋ. १०.७३.११

*अग्निर्दाद् द्रविणं वीरपेशा अग्निर्ऋषिं यः सहस्रा सनोति। अग्निर्दिवि हव्यमा ततानाऽग्नेर्धामानि विभृता पुरुत्रा ॥ अग्निमुक्थैर्ऋषयो वि ह्वयन्ते ऽग्निं नरो यामनि बाधितासः। अग्निं वयो अन्तरिक्षे पतन्तो ऽग्निः सहस्रा परि याति गोनाम् ॥ - ऋ. १०.८०.४-५

*य इमा विश्वा भुवनानि जुह्वदृषिर्होता न्यसीदत् पिता नः। स आशिषा द्रविणमिच्छमानः प्रथमच्छदवराँ आ विवेश ॥ - ऋ. १०.८१.१

*त आयजन्त द्रविणं समस्मा ऋषयः पूर्वे जरितारो न भूना। असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि ॥ - ऋ. १०.८२.४

*पुरूणि हि त्वा सवना जनानां ब्रह्माणि मन्दन् गृणतामृषीणाम्। इमामाघोषन्नवसा सहूतिं तिरो विश्वाँ अर्चतोv याह्यर्वाङ् ॥ - ऋ. १०.८९.१६

*तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः। तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ - ऋ. १०.९०.७

*आर्ष्टिषेणो होत्रमृषिर्निषीदन् देवापिर्देवसुमतिं चिकित्वान्। स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि ॥ - ऋ. १०.९८.५

*त्वां पूर्व ऋषयो गीर्भिरायन् त्वामध्वरेषु पुरुहूत विश्वे। सहस्राण्यधिरथान्यस्मे आ नो यज्ञं रोहिदश्वोप याहि ॥ - ऋ. १०.९८.९

*तमेव ऋषिं तमु ब्रह्माणमाहुर्यज्ञन्यं सामगामुक्थशासम्। स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया रराध ॥ - ऋ. १०.१०७.६

*एह गमन्नृषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः। त एतमूर्वं वि भजन्त गोनामथैतद्वचः पणयो वमन्नित् ॥ - ऋ. १०.१०८.८

*दूरमित् पणयो वरीय उद्गावो यन्तु मिनतीर्ऋतेन। बृहस्पतिर्या अविन्दन्निगूळ्हाः सोमो ग्रावाण ऋषयश्च  विप्राः ॥ - ऋ. १०.१०८.११

*इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयोऽवोचन्। ताँश्च पाहि गृणतश्च सूरीन् वषड्वषळित्यूर्ध्वासो अनक्षन् नमो नम इत्यूर्ध्वासो अनक्षन् ॥ - ऋ. १०.११५.९

*अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः। यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ - ऋ. १०.१२५.५

*अर्यो वा गिरो अभ्यर्च विद्वानृषीणां विप्रः सुमतिं चकानः। ते स्याम ये रणयन्त सोमैरेनोत तुभ्यं रथोळ्ह भक्षैः ॥ - ऋ. १०.१४८.३

*अग्निर्देवो देवानामभवत्~ पुरोहितो ऽग्निं मनुष्या ऋषयः समीधिरे। अग्निं महो धनसातावहं हुवे मृळीकं धनसातये ॥ - ऋ. १०.१५०.४

*सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम्। ऋषीन् तपस्वतो यम तपोजाँ अपि गच्छतात् ॥ - ऋ. १०.१५४.५

*समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या। सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्रः ॥ - अथर्ववेद २.६.१

*यज्ञपतिमृषय एनसाहुर्निर्भक्तं प्रजा अनुतप्यमानम्। मथव्यान्त्स्तोकानप यान् रराध सं नष्टेभिः सृजतु विश्वकर्मा ॥ - अ. २.३५.२

*घोरा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च सत्यम्। बृहस्पतये महिष द्युमन्नमो विश्वकर्मन् नमस्ते पाह्यस्मान् ॥ - अ. २.३५.४

*येन ऋषयो बलमद्योतयन् युजा येनासुराणामयुवन्त मायाः। येनाग्निना पणीनिन्द्रो जिगाय स नो मुञ्चत्वंहसः ॥ - अ. ४.२३.५

*अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम्। यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ - अ. ४.३०.३

*अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपा उ। नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागन् ॥ - अ. ४.३९.९

*ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः। तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥ - अ. ५.३०.१०

*यद्ब्रह्मभिर्यदृषिभिर्यद् देवैर्विदितं पुरा। यद्भूतं भव्यमासन्वत् तेना ते वारये विषम् ॥ - अ. ६.१२.२

*मा नो हासिषुर्ऋषयो दैव्या ये तनूपा ये नस्तन्वस्तनूजाः। अमर्त्या मर्त्याf अभि नः सचध्वमायुर्धत्त प्रतरं जीवसे नः ॥ - अ. ६.४१.३

*मेधामहं प्रथमां ब्रह्मण्वतीं ब्रह्मजूतामृषिष्टुताम्। प्रपीतां ब्रह्मचारिभिर्देवानामवसे हुवे ॥ - अ. ६.१०८.२

*यां मेधामृभवो विदुर्यां मेधामसुरा विदुः। ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि ॥ यामृषयो भूतकृतो मेधां मेधाविनो विदुः। तया मामद्य मेधयाग्ने मेधाविनं कृणु ॥ - अ. ६.१०८.३-४

*आहुतास्यभिहुत ऋषीणामस्यायुधम्। पूर्वा व्रतस्य प्राश्नती वीरघ्नी भव मेखले ॥ अ. ६.१३३.२

*श्रद्धाया दुहिता तपसोऽधि जाता स्वस ऋषीणां भूतकृतां बभूव। सा नो मेखले मतिमा धेहि मेधामथो नो धेहि तप इन्द्रियं च ॥ यां त्वा पूर्वे भूतकृत ऋषयः परिबेधिरे। सा त्वं परि ष्वजस्व मां दीर्घायुत्वाय मेखले ॥ - अ. ६.१३३.४-५

*सं माग्ने वर्चसा सृज सं प्रजया समायुषा। विद्युर्मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥ - अ. ७.९४.२

*स्राक्त्येन मणिन ऋषिणेव मनीषिणा। अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः ॥ - अ. ८.५.८

*अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः। प्रजापतिः परमेष्ठी विराड् वैश्वानर ऋषयश्च सर्वे ॥ - अ. ८.५.१०

*षट् त्वा पृच्छाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च। विराजमाहुर्ब्रह्मणः पितरं तां नो वि धेहि  यतिधा सखिभ्यः ॥ यां प्रच्युतामनु यज्ञाः प्रच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम्। यस्या व्रते प्रसवे यक्षमेजति सा विराड्ऋषयः परमे व्योमन् ॥ - अ. ८.९.७-८

 

*अग्नीषोमावदधुर्या तुरीयासीद् यज्ञस्य पक्षावृषयः कल्पयन्तः। गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तीम् ॥ - अ. ८.९.१४

*अष्टेन्द्रस्य षड् यमस्य ऋषीणां सप्त सप्तधा। अपो मनुष्यानोषधीस्ताँ उ पञ्चानु सेचिरे ॥ केवलीन्द्राय दुदुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना। अथातर्पयच्चतुरश्चतुर्धा देवान् मनुष्याँ असुरानुत ऋषीन् ॥ को नु गौः क एकऋषिः किमु धाम का आशिषः। यक्षं पृथिव्यामेकवृदेकर्तुः कतमो नु सः ॥ एको गौरेक एकऋषिरेकं धामैकधाशिषः। यक्षं पृथिव्यामेकवृदेकर्तुनाति रिच्यते ॥ - अ. ८.९.२३-२६

*सं माग्ने वर्चसा सृज सं प्रजया समायुषा। विद्युर्मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥ - अ. ९.१.१५

*साकंजानां सप्तथमाहुरेकजं षडिद् यमा ऋषयो देवजा इति। तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥ - अ. ९.९.१६

*देवैनसात् पित्र्यान्नामग्राहात् संदेश्यादभिनिष्कृतात्। मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मण ऋग्भिः पयस ऋषीणाम् ॥ - अ. १०.१.१२

*सं माग्ने वर्चसा सृज सं प्रजया समायुषा। विद्युर्मे अस्य देवा इन्द्रो विद्यात् सह ऋषिभिः ॥ - अ. १०.५.४७

*यत्र ऋषयः प्रथमजा ऋचः साम यजुर्मही। एकर्षिर्यस्मिन्नार्पितः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥ - अ. १०.७.१४

*तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम्। तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥ - अ. १०.८.९

*वशामेवामृतमाहुर्वशां मृत्युमुपासते। वशेदं सर्वमभवद् देवा मनुष्या असुराः पितर ऋषयः ॥ - अ. १०.१०.२६

*ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः। अयं यज्ञो गातुविन्नाथवित्प्रजाविदुग्रःपशुविद् वीरविद् वो अस्तु ॥ अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षत् शुचिस्तपिष्ठस्तपसा तपैनम्। आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु ॥ - अ. ११.१.१५-१६

*शृतं त्वा हव्यमुप सीदन्तु दैवा निःसृप्याग्ने पुनरेनान् प्र सीद। सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन् प्राशितारः ॥ सोम राजन्त्संज्ञानमा वपैभ्यः सुब्राह्मणा यतमे त्वोपसीदान्। ऋषीनार्षेयांस्तपसोऽधि जातान् ब्रह्मौदने सुहवा जोहवीमि ॥ - अ. ११.१.२५-२६

*बभ्रे रक्षः समदमा वपैभ्योऽब्राह्मणा यतमे त्वोपसीदान्। पुरीषिणः प्रथमानाः पुरस्तादार्षेयास्ते मा रिषन् प्राशितारः ॥ आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्यत्र। अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ॥ - अ. ११.१.३२-३३

*वृषभोऽसि स्वर्ग ऋषीनार्षेयान् गच्छ। सुकृतां लोके सीद तत्र नौ संस्कृतम् ॥ - अ. ११.१.३५

*ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह। - - - - - ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। बधिरो भविष्यसीत्येनमाह। - - - -- - ततश्चैनमन्याभ्यामक्षीभ्याम् प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। अन्धो भविष्यसीत्येनमाह। - - - - - ततश्चैनमन्येन मुखेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। मुखतस्ते प्रजा मरिष्यतीत्येनमाह। - - - -ततश्चैनमन्यया जिह्वया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन्। जिह्वा ते मरिष्यतीत्येनमाह। - - - -ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन्। दन्तास्ते शत्स्यन्तीत्येनमाह। - - - - ततश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन्। प्राणापानास्त्वा हास्यन्तीत्येनमाह। - - - - ततश्चैनमन्येन व्यचसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह। - - - - ततश्चैनमन्येन पृष्ठेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। विद्युत् त्वा हनिष्यतीत्येनमाह। - - - - -ततश्चैनमन्येनोरसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। कृष्या न रात्स्यसीत्येनमाह। - - - -ततश्चैनमन्येनोदरेण प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। उदरदारस्त्वा हनिष्यतीत्येनमाह। - - - - - ततश्चैनमन्येन वस्तिना प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। अप्सु मरिष्यसीत्येनमाह। - - - - - ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। ऊरू ते मरिष्यत इत्येनमाह। - - - ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। स्रामो भविष्यसीत्येनमाह। - - - - -ततश्चैनमन्याभ्यां पादाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। बहुचारी भविष्यसीत्येनमाह। - - - - - ततश्चैनमन्याभ्यां प्रपदाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। सर्पस्त्वा हनिष्यतीत्येनमाह। - - - - ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। ब्राह्मणं हनिष्यसीत्येनमाह। - - - - ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन्। अप्रतिष्ठानो अनायतनो मरिष्यसीत्येनमाह। - - - - - - अ. ११.२.१- ११.४.७

*ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः। ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः। ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥ - अ. ११.९.२५

*बृहस्पतिराङ्गिरस ऋषयो ब्रह्मसंशिताः। असुरक्षयणं वधं त्रिषंधिं दिव्याश्रयन् ॥ - अ. ११.१२.१०

*यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः। सप्त सत्रेण वेधसो यज्ञेन तपसा सह ॥ - अ. १२.१.३९

*उदीचीनैः पथिभिर्वायुमद्भिरतिक्रामन्तोऽवरान् परेभिः। त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्यौहन् पदयोपनेन ॥ - अ. १२.२.२९

*ऊरू पादावष्ठीवन्तौ शिरौ हस्तावथो मुखम्। पृष्ठीर्बर्जह्ये पार्श्वे कस्तत् समदधादृषिः ॥ - अ. ११.१०.१४

*प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति। य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥ - अ. १२.४.२

*य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति। आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥ - अ. १२.४.१२

*स यज्ञः प्रथमो भूतो भव्यो अजायत। तस्माद्ध जज्ञ इदं सर्वं यत् किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥ - अ. १३.१.५५

*ऋषीणां प्रस्तरोऽसि नमोऽस्तु दैवाय प्रस्तराय ॥ - अ. १६.२.६

*तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः। स ऋषीणां पाशान्मा मोचि। - अ. १६.८.१२

*तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः। स आर्षेयाणां पाशान्मा मोचि। - अ. १६.८.१३

*त्वामिन्द्र ब्रह्मणा वर्धयन्तः सत्रं नि षेदुर्ऋषयो नाधमानास्तवेद् विष्णो बहुधा वीर्याणि। - अ. १७.१.१४

*यमाय मधुमत्तमं जुहोता प्र च तिष्ठत। इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥ - अ. १८.२.२

*ये चित् पूर्व ऋतसाता ऋतजाता ऋतावृधः। ऋषीन् तपस्वतो यम तपोजाँ अपि गच्छतात् ॥ - अ. १८.२.१५

*सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम्। ऋषीन् तपस्वतो यम तपोजाँ अपि गच्छतात् ॥ - अ. १८.२.१८

*देवेभ्यः कमवृणीत मृत्युं प्रजायै किममृतं नावृणीत। बृहस्पतिर्यज्ञमतनुत ऋषिः प्रियां यमस्तन्वमा रिरेच ॥ - अ. १८.३.४१

*ते तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः। अग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिर्ऋषिभिर्घर्मसद्भिः ॥ ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण। आग्ने याहि सुविदत्रेभिरर्वाङ् परैः पूर्वैर्ऋषिभिर्घर्मसद्भिः ॥ - अ. १८.३.४७-४८

*आ रोहत दिवमुत्तमामृषयो मा बिभीतन। सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्योतिरुत्तमम् ॥ - अ. १८.३.६४

*उत्तरेभ्यः स्वाहा। ऋषिभ्यः स्वाहा ॥ - अ. १९.२२.१४

*त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे। त्वां पवित्रमृषयोऽभरन्त त्वं पुनीहि दुरितान्यस्मत् ॥ - अ. १९.३३.३

*इन्द्रस्य नाम गृह्णन्त ऋषयो जङ्गिडं ददुः। देवा यं चक्रुर्भेषजमग्रे विष्कन्धदूषणम् ॥ - अ. १९.३५.१

*भद्रमिच्छन्त ऋषयः स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे। ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उपसंनमन्तु ॥ - अ. १९.४१.१

*कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते। कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवत आ गमः॥ - अ. २०.५०.२

*यस्तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस्त्रिषधस्थो रवेण। तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥ - अ. २०.८८.१

*अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे। सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ - अ. २०.१०४.२

*ये त्वामिन्द्र न तुष्टुवुर्ऋषयो ये च तुष्टुवुः। ममेद् वर्धस्व सुष्टुतः ॥ - अ. २०.११५.३

*आ नूनमश्विनोर्ऋषि स्तोमं चिकेत वामया। आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥ - अ. २०.१४०.२

*यत्र कक्षीवाँ उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव। पृथी यद्वां वैन्यः सादनेष्वेवेदतोv अश्विना चेतयेथाम् ॥ - अ. २०.१४०.५

*न कौष्ठस्य न कुम्भ्यै। भस्त्रायै ह स्मर्षयो गृह्णन्ति। तद्वृषीन् प्रति भस्त्रायै यजूंष्यासुः। तान्येतर्हि प्राकृतानि - यज्ञाद्यज्ञं निर्मिमा इति। - शतपथ ब्राह्मण १.१.२.७

*अथो अपि प्रबर्ह स्तृणीयात् - स्तृणन्ति बर्हिरानुषगिति ह्यृषिणाभ्यनूक्तम्। - शतपथ १.३.३.१०

*घृताच्या इति। विदेघो ह माथवोऽग्निं वैश्वानरं मुखे बभार। तस्य गोतमो राहूगण ऋषिः पुरोहित आस । तस्मै ह स्मामन्त्र्यमाणो न प्रतिशृणोति - नेन्मेऽग्निर्वैश्वानरो मुखान्निष्पद्याता इति। तमृग्भिर्ह्वयितुं दध्रे - वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि। अग्ने बृहन्तमध्वरे - विदेघ इति- - - -शतपथ १.४.१.१०

*आर्षेयानुवचनम् : अथार्षेयं प्रवृणीते। ऋषिभ्यश्चैवैनमेतद्देवभ्यश्च निवेदयति - अयं महावीर्यो यो यज्ञं प्रापदिति। तस्मादार्षेयं प्रवृणीते - शतपथ १.४.२.३

*निवित्पाठ: - स आर्षेयमुक्त्वाह - देवेद्धो मन्विद्धः इति। देवा ह्येतमग्र ऐन्धत। - - - - - ऋषिष्टुतःइति। ऋषयो ह्येतमग्रेऽस्तुवन्। तस्मादाह - ऋषिष्टुत इति। विप्रानुमदितः इति। एते वै विप्राः - यदृषयः। एते ह्येतमन्वमदन्। तस्मादाह - विप्रानुमदित इति। - मा.श. १.४.२.५-७

*ते(देवाः) यज्ञस्य रसं धीत्वा - यथा मधु मधुकृतो निर्धयेयुः - विदुह्य यज्ञं, यूपेन योपयित्वा तिरोऽभवन्। अथ यदेनेनायोपयन् - तस्माद् यूपो नाम। तद्वा ऋषीणामनुश्रुतमास। - मा.श. १.६.२.१

*तेऽर्चन्तः श्राम्यन्तश्चेरुः। श्रमेण ह स्म वै तद्देवा जयन्ति - यदेषां जय्यमास - ऋषयश्च। - - - - - मा.श. १.६.२.३

*अस्य प्रत्नामनुद्युतम् शुक्रं दुदुह्रे अह्रयः। पयः सहस्रसामृषिम् इति। परमा वा एषा सनीनां यत् - सहस्रसनिः। तदेतस्यैवावरुध्यै तस्मादाह पयः सहस्रसामृषिमिति। - मा.श. २.३.४.१५

*तस्मादेतदृषिणाऽभ्यनूक्तम् - मनसा संकल्पयति तद् वातमपि गच्छति। वातो देवेभ्य आचष्टे यथा पुरुष ते मनः इति - मा.श. ३.४.२.७

*ऐन्द्रवायव ग्रहः : तस्मादेतदृषिणाऽभ्यनूक्तम् - चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति इति। - मा.श. ४.१.३.१७

*आश्विन् ग्रहः - स रथं युक्त्वा सुकन्यां शार्यातीमुपाधाय प्रसिष्यन्द। स आजगाम यत्रऽर्षिरास - तत्।  स होवाच - ऋषे ! नमस्ते, यन्नावेदिषम् - तेनाहिंसिषम्। इयं सुकन्या, तया तेऽपह्नुवे, संजानीतां मे ग्राम इति - - - मा.श. ४.१.५.७

*तौ होचतुः - सुकन्ये! कमिमं जीर्णिं कृत्यारूपमुपशेषे। आवामनुप्रेहीति। सा होवाच - यस्मै मां पिताऽदात्, नैवाहं तं जीवन्तं हास्यामीति। तद्धायमृषिराजज्ञौ। स होवाच - - - - - मा.श. ४.१.५.९

*तौ होचतुः - सुकन्ये केनावमसर्वौ स्वः, केनासमृद्धावति। तौ हर्षिरेव प्रत्युवाच - कुरुक्षेत्रऽमी देवा यज्ञं  तन्वते, ते वां यज्ञादन्तर्यन्ति - तेनासर्वौ स्थः, तेनासमृद्धाविति। -- - - - मा.श. ४.१.५.१३

*क्रतुग्रहाः - तस्मादैन्द्राग्नोऽच्छावाकः। स एतेन च हविषा यदस्माऽएतत्पुरोडाशबृगलं पाणावादधाति, एतेन चार्षेयेण - यदेतदन्वाह - तेनानुसमश्नुते। - मा.श. ४.३.१.२

*दाक्षिणहोमो दक्षिणादानञ्च : ऋषिमार्षेयम् इति। यो वै ज्ञातोऽनूचानः स ऋषिरार्षेयः। सुधातुदक्षिणम् इति। स हि सुधातुदक्षिणः। - मा.श. ४.३.४.१९

*अथैवमेवोपसद्य आत्रेयाय हिरण्यं ददाति। यत्र वाऽअदः प्रातरनुवाकमन्वाहुः - तद्ध स्मैतत् पुरा शंसन्ति। अत्रिर्वाऽऋषीणां होतास। अथैतत्सदोऽसुरतमसमभिपुप्रुवे। तऽऋषयोऽत्रिमब्रुवन् - एहि प्रत्यङ्ङिदं तमोऽपजहीति। स एतत्तमोऽपाहन्। - - - - मा.श. ४.३.४.२१

*अथाग्निचित्याब्राह्मणम् : असद्वाऽइदमग्रऽआसीत्। तदाहुः - किं तदसदासीदिति। ऋषयो वाव तेऽग्रेऽसदासीत्। तदाहुः - के ते ऽऋषय इति। प्राणा वाऽऋषयः। ते यत्पुराऽऽस्मा त्सर्वस्मादिदमिच्छन्तःश्रमेण तपसारिषन् - तस्मादृषयः। - मा.श. ६.१.१.१

*समास्त्वाऽग्न ऋतवो वर्द्धयन्तु इति - - - संवत्सरा ऋषयो यानि सत्या इति। संवत्सराश्च त्वर्षयश्च सत्यानि च वर्द्धयंतु - इत्येतत्। - मा.श. ६.२.१.२६

*तदेता वाव षड् देवता इदं सर्वमभूवन् - यदिदं किंच। ते देवाश्चऽर्षयश्चाब्रुवन् - इमा वाव षड् देवता इदं सर्वमभूवन्। - - - - तेषां चेतयमानानां देवा द्वितीयां चितिमपश्यन्, ऋषयश्चतुर्थीम्। - मा.श. ६.२.३.७

*अत यदूर्ध्वमन्तरिक्षात्, अर्वाचीनं दिवः - तेनऽर्षय उपायन्। तदेषा चतुर्थी चितिः। - मा.श. ६.२.३.८

*प्रजापतिः प्रथमां चितिमपश्यत्। प्रजापतिरेव तस्या आर्षेयम्। देवा द्वितीयां चितिमपश्यन्। देवा एव तस्या आर्षेयम्। इन्द्राग्नी च विश्वकर्मा च तृतीयां चितिमपश्यन्। तऽएव तस्या आर्षेयम्। ऋषयश्चतुर्थीं चितिमपश्यन्। ऋषय एव तस्या आर्षेयम्। परमेष्ठी पञ्चमीं चितिमपश्यत्। परमेष्ठ्येव तस्या आर्षेयम्। स यो हैतदेवं चितीनामार्षेयं वेद - आर्षेयवत्यो हास्य बन्धुमत्यश्चितयो भवन्ति। - मा.श. ६.२.३.१०

*तमु त्वा दध्यङ्ङृषिः पुत्र ईधेऽअथर्वणः इति। वाग्वै दध्यङ्ङाथर्वणः। - मा.श. ६.४.२.३

*यद्वेवैनमभिजुहोति। एतद्वै यत्रैतं प्राणा ऋषयोऽग्रेऽग्निं समस्कुर्वन् - तदस्मिन्नेतं पुरस्ताद्भागमकुर्वत। -  - - - - तद्यदभिजुहोति - यऽएवास्मिंस्ते प्राणा ऋषयः पुरस्ताद्भागमकुर्वत - तानेवैतत्प्रीणाति। - मा.श. ७.२.३.५

*वसिष्ठ ऋषिः इति। प्राणो वै वसिष्ठ ऋषिः। यद्वै नु श्रेष्ठः - तेन वसिष्ठः। अथो यद्वस्तृतमो वसति - तेनोऽएव वसिष्ठः। - मा.श. ८.१.१.६

*भरद्वाज ऋषिः इति। मनो वै भरद्वाज ऋषिः। अन्नं वाजः। यो वै मनो बिभर्ति सो ऽन्नं वाजं भरति। तस्मान्मनो भरद्वाज ऋषिः। - मा.श. ८.१.१.९

*जमदग्निर्ऋषिः इति। चक्षुर्वै जमदग्निर्ऋषिः। यदेनेन जगत्पश्यति, अथो मनुते तस्माच्चक्षुर्जमदग्निर्ऋषिः। - मा.श. ८.१.२.३

*विश्वामित्र ऋषिः इति। श्रोत्रं वै विश्वामित्र ऋषिः। यदेनेन सर्वतः शृणोति। अथो यदस्मै सर्वतोv मित्रं भवति - तस्माच्छ्रोत्रं विश्वामित्र ऋषिः। - मा.श. ८.१.२.६

*विश्वकर्मऽऋषिः इति। वाग्वै विश्वकर्मर्षिः। वाचा हीदं सर्वं कृतम्। तस्माद्वाग्विश्वकर्मर्षिः। - मा.श. ८.१.२.९

*यद्वेव स्तोमानुपदधाति। ये वै ते प्राणा ऋषय एतां चतुर्थीं चितिमपश्यन्, ये तऽएतेन रसेनोपायन् - तऽएते। तानेवैतदुपदधाति। प्राणा वै स्तोमाः। प्राणा उ वा ऋषयः। ऋषीनेवैतदुपदधाति। - मा.श. ८.४.१.५

*- - - - यत्प्रजापतिमुपादधत - तस्मात्प्रजापतिचितिः। सऽर्षिचितिः। यदृषीनुपादधत - तस्मादृषिचितिः। - - - - मा.श. ८.४.४.१२

*परिषेकधेनूकरणावकर्षणादिकं कर्म : यद्वेवैनं विकर्षति। एतद्वै यत्रैतं प्राणा ऋषयोऽग्रेऽग्निं समस्कुर्वन्। तमद्भिरवोक्षन् - ता आपः समस्कन्दन् - ते मण्डूका अभवन्। - मा.श. ९.१.२.२१

*वैश्वानरमारुतयोर्होमविध्यादि : अथ यं द्वितीयमुत्तरतो जुहोति - सप्त ऋषयः सः। स सप्तकपालो भवति। सप्त हि सप्तर्षयः। तमनन्तर्हितं पूर्वस्माज्जुहोति - ऋतुषु तदृषीन्प्रतिष्ठापयति। - मा.श. ९.३.१.२१

*अथ यं तृतीयमुत्तरतो जुहोति - छन्दांसि सः। स सप्तकपालो भवति। सप्त हि चतुरुत्तराणिच्छन्दांसि।  तमनन्तर्हितं पूर्वस्माज्जुहोति। अनन्तर्हितानि तदृषिभ्यश्छन्दांसि दधाति - मा.श. ९.३.१.२३

*दक्षिणाऽन्नं वनुते यो न आत्मा इति ह्यप्यृषिणाऽभ्युक्तम्। - मा.श. १०.१.१.१०

*प्रजापतेर्भोक्तृत्वमाहवनीयरूपत्वम् : तद्धैतत्पश्यन्नृषिरभ्यनूवाद - भूतं भविष्यत्प्रस्तौमि महद्ब्रह्मैकमक्षरम् - बहु ब्रह्मैकमक्षरम् इति। - मा.श. १०.४.१.९

*तस्मादेतदृषिणाऽभ्यनूक्तम् - न त्वं युयुत्से कतमच्च नाहर्न्न तेऽमित्रो मघवन् कश्चनास्ति। मायेत्सा ते यानि युद्धान्याहुर्न्नाद्य शत्रून्ननु पुरा युयुत्से इति। - मा.श. ११.१.६.१०

*तद्वा अद आग्नेय्यामिष्टा उद्यते। यथा तत् ऋषिभ्यो यज्ञः प्रारोचत। तं यथाऽतन्वत। तद्यज्ञं तन्वानानृषीन् गंधर्वा उपनिषेदुः। ते ह स्म सन्निधति। इदं वा अत्यरीरिचन्, इदमूनमक्रन्निति। - - - मा.श. ११.२.३.७

*अथेध्ममादीप्य प्राञ्चं हर्तवै ब्रूयात्। ब्राह्मण आर्षेय उद्धरेत्। ब्राह्मणो वा आर्षेयः सर्वा देवताः। - मा.श. १२.४.४.६

*अथेध्ममादीप्य अन्वञ्चं हर्तवै ब्रूयात्। ब्राह्मण आर्षेय उद्धरेत्। ब्राह्मणो वा आर्षेयः सर्वा देवताः। - मा.श. १२.४.४.७

*तस्मादपि एतत् ऋषिणाऽभ्यनूक्तम् - यो अग्निरग्नेरध्यजायत शोकात्पृथिव्या उत वा दिवस्परि। येन प्रजा विश्वकर्मा जजान तमग्ने हेडः परि ते वृणक्तु इति। यथा ऋक् तथा ब्राह्मणम्। - मा.श. १२.५.२.४

*स होवाच - ऋषे विराजं ह वै वेत्थ। तां मे ब्रूहीति। स होवाच - किं मे ततः स्यादिति। - - - - - ततो हैतामृषिरिन्द्राय विराजमुवाच। इयं वै विराडिति। - - - - अथ हैतामिन्द्र ऋषये प्रायश्चित्तिमुवाच। अग्निहोत्रादग्र आ महत उक्थात्। ता ह स्मैताः पुरा व्याहृतीर्वसिष्ठा एव विदुः। तस्माद्ध स्म पुरा वासिष्ठ एव ब्रह्मा भवति। - मा.श. १२.६.१.४१

*तस्मादेतदृषिणाभ्यनूक्तम् - अस्माकमत्र पितरस्त आसन् सप्त ऋषयो दौर्ग्रहे बध्यमाने इति। - मा.श.१३.५.४.५

*तस्मादेतदृषिणाऽभ्यनूक्तम् - दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच इति। - मा.श.१४.१.१.२५

*ब्रह्म वा इदमग्र आसीत्। तदात्मानमेवावेत् - अहं ब्रह्मास्मि इति। तस्मात् तत्सर्वमभवत्~। तत् यो यो देवानां प्रत्यबुnध्यत। स स एव तदभवत्~। तथा ऋषीणाम्। तथा मनुष्याणाम्। - मा.श. १४.४.२.२१

*तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे - अहं मनुरभवं सूर्यश्च इति। तदिदमप्येतर्हि य एवं वेद। - मा.श. १४.४.२.२२

*तदेष श्लोको भवति - अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम्। तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदाना इति। - - - - - तस्यासत ऋषयः सप्त तीर इति। प्राणा वा ऋषयः। प्राणानेतदाह। - मा.श. १४.५.२.५

*अपि हि नः ऋषेर्वचः श्रुतम् - द्वे सृती अशृणवं पितृणामहं देवानामुत मर्त्यानाम्। ताभ्यामिदं विश्वमेजत्समेति यदंतरा पितरं मातरं च इति। - मा.श. १४.९.१.४

*आनूनमश्विनोर्ऋषिः इति - ऐतरेय ब्राह्मण १.२२

*सोमो वै राजा गन्धर्वेष्वासीत्तं देवाश्च ऋषयश्चाभ्यध्यायन्कथमयमस्मान्सोमो राजाऽऽगच्छेदिति सा वागब्रवीत्स्त्रीकामा वै गन्धर्वा - - - ऐ.ब्रा. १.२७

*यज्ञेन वै देवा ऊर्ध्वाः स्वर्गं लोकमायंस्तेऽबिभयुरिमं नो दृष्ट्वा मनुष्याश्च ऋषयश्चानुप्रज्ञास्यन्तीति तं वै यूपेनैवायोपयंस्तं यद्यूपेनैवायोपयंस्तद्यूपस्य यूपत्वं तमवाचीनाग्रं निमित्योर्ध्वा उदायंस्ततो वै मनुष्याश्च ऋषयश्च देवानां यज्ञवास्त्वभ्यायन्यज्ञस्य किंचिदेषिष्यामः प्रज्ञात्या इति - - - - - ऐ.ब्रा. १.३०

*ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भवेति यज्ञसमृद्धिमाशास्ते - ऐ.ब्रा. २.१२

*ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भवेति यज्ञसमृद्धिमाशास्ते - ऐ.ब्रा. २.१२

*ते(देवाः) वपामेव हुत्वाऽनादृत्येतराणि कर्माण्यूर्ध्वाः स्वर्गं लोकमायंस्ततो वै मनुष्याश्च ऋषयश्च देवानां यज्ञवास्त्वभ्यायन्यज्ञस्य किंचिदेषिष्यामः प्रज्ञात्या इति तेऽभितः परिचरन्त ऐत्पशुमेव निरान्त्रं शयानं ते विदुरियान्वाव किल पशुर्यावती वपेति - ऐ.ब्रा. २.१३

*ऋषयो वै सरस्वत्यां सत्रमासत ते कवषमैलूषं सोमादनयन्दास्याः पुत्रः कितवोऽब्राह्मणः कथं नो मध्येऽदीक्षिष्टेति - - - - - - ऐ.ब्रा. २.१८

*उपहूता वाक्सह प्राणेनोप मां वाक्सह प्राणेन ह्वयतामुपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप  मामृषयो दैव्यासो ह्वयन्तां तनूपावानस्तन्वस्तपोजा इति। प्राणा वा ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजास्तानेव तदुपह्वयते - ऐ.ब्रा. २.२७

*उपहूता ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजा उप मामृषयो दैव्यासो ह्वयन्ता तनूपावानस्तन्वस्तपोजा इति प्राणा वा ऋषयो दैव्यासस्तनूपावानस्तन्वस्तपोजास्तानेव तदुपह्वयते। - ऐ.ब्रा. २.२७

*तदप्येतदृषिणोक्तमग्निर्ऋषिः पवमान इति। एवमु हास्याऽऽग्नेयीभिरेव प्रतिपद्यमानस्य पावमान्योऽनुशस्ता भवन्ति। - ऐ.ब्रा. २.३७

*तदेतदृषिः पश्यन्नभ्यनूवाच इति। यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत। यत्र जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुरिति। - ऐ.ब्रा. ३.१२

*प्रियमेधा ऋषयो नाधमानाः इति - ऐ.ब्रा. ३.१९

*सोमो वै राजाऽमुष्मिfल्लोक आसीत्तं देवाश्च ऋषयश्चाभ्यध्यायन्कथमयमस्मात्सोमो राजाऽऽगच्छेदिति तेऽब्रुवंश्छन्दांसि यूयं न इमं सोमं राजानमाहरतेति तथेति - - - - ऐ.ब्रा. ३.२५

*अग्निष्टोमं वै देवा अश्रयन्तोक्थान्यसुरास्ते समावद्वीर्या एवाऽऽसन्न व्यवर्तन्त तान्भरद्वाज ऋषीणामपश्यदिमे वा असुरा उक्थेषु श्रितास्तानेषां न कश्चन पश्यतीति सोऽग्निमुदह्वयत् इति। - - - ऐ.ब्रा. ३.४९

*तदाहुर्यदन्येषु पशुषु यथ ऋष्याप्रियो भवन्त्यथ कस्मादस्मिन्सर्वेषां जामदग्न्य एवेति। - ऐ.ब्रा. ४.२६

*तदुक्तमृषिणा पवमानः प्रजापतिरिति - ऐ.ब्रा. ४.२६

*तदाहुरथ कस्मादुत्करे तिष्ठन्सुब्रह्मण्यामाह्वयतीत्यृषयो वै सत्रमासत तेषां यो वर्षिष्ठ आसीत्तमब्रुवन्सुब्रह्मण्यामाह्वय त्वं नो नेदिष्ठाद्देवान्ह्वयिष्यसीति वर्षिष्ठमेवैनं तत्कुर्वन्त्यथो वेदिमेव तत्सर्वां प्रीणाति - ऐ.ब्रा. ६.३

*माध्यन्दिनीयशस्त्रक्लृप्तिं विधातुमाख्यायिका : ते वै देवाश्च ऋषयश्चाऽऽद्रियन्त समानेन यज्ञं संतनवामेति त एतत्समानं यज्ञस्यापश्यन्समानान्प्रगाथान्समानीः प्रतिपदः समानानि सूक्तानि। - - - - ऐ.ब्रा. ६.१८

*आवपनीयानि सूक्तानि : एतानि वा आवपनान्येतैर्वा आवपनैर्देवाः स्वर्गं लोकमजयन्नेतैर्ऋषयस्तथैवैतद्यजमाना एतैरावपनैः स्वर्गं लोकं जयन्ति। - ऐ.ब्रा. ६.१९

*सद्यो ह जातो वृषभः कनीन इति - - - तदेत्सूक्तं स्वर्ग्यमेतेन सूक्तेन देवाः स्वर्गं लोकमजयन्नेतेन ऋषयस्तथैवैतद्यजमाना एतेन सूक्तेन स्वर्गं लोकं जयन्ति - ऐ.ब्रा. ६.२०

*कवींरिच्छामि संदृशे सुमेधा इति। ये वै ते न ऋषयः पूर्वे प्रेतास्ते वै कवयस्तानेव तदभ्येति वदति। तदु वैश्वामित्रं विश्वस्य ह वै मित्रं विश्वामित्र आस विश्वं हास्मै मित्रं भवति य एवं वेद - ऐ.ब्रा. ६.२०

*यो वा अग्निः स वरुणस्तदप्येतदृषिणोक्तं त्वमग्ने वरुणो जायसे यदिति तद्यदेवैन्द्रावरुण्या यजति तेनाग्निरनन्तरितोऽनन्तरितः - ऐ.ब्रा. ६.२६

*नाराशंसीः शंसति - - - - शंसन्तो वै देवाश्च ऋषयश्च स्वर्गं लोकमायंस्तथैवैतद्यजमानाः शंसन्त एव स्वर्गं लोकं यन्ति - ऐ.ब्रा. ६.३२

*रैभीः शंसति। रेभन्तो वै देवाश्च ऋषयश्च स्वर्गं लोकमायंस्तथैवैतद्यजमाना रेभन्त स्वर्गं लोकं यन्ति। - ऐ.ब्रा. ६.३२

*देवाश्चैतामृषयश्च तेजः समभरन्महत्। देवा मनुष्यानब्रुवन्नेषा वो जननी पुनः - ऐ.ब्रा. ७.१३

*शुनःशेप आख्यानम् : चरैवेति वै मा ब्राह्मणोऽवोचदिति ह षष्ठं संवत्सरमरण्ये चचार सोऽजीगर्तं सौयवसिमृषिमशनया परीतमरण्य उपेयाय। तस्य ह त्रयः पुत्रा आसुः - - - - - ऐ.ब्रा. ७.१५

*अथ ह शुनःशेपो विश्वामित्रस्याङ्कमाससाद स होवाचाजीगर्तः सौयवसिर्ऋषे पुनर्मे पुत्रं देहीति नेति होवाच विश्वामित्रो - - - -ऐ.ब्रा. ७.१७

*अधीयत देवरातो रिक्थयोरुभयोर्ऋषिः। जह्नूनां चाऽऽधिपत्ये दैवे वेदे च गाथिनाम्। - ऐ.ब्रा. ७.१८

*निधाय वा एष स्वान्यायुधानि ब्रह्मण एवाऽऽयुधैर्ब्रह्मणो रूपेण ब्रह्म भूत्वा यज्ञमुपावर्तत तस्मात्तस्य पुरोहितस्याऽऽर्षेयेण दीक्षामावेदयेयुः पुरोहितस्याऽऽर्षेयेण प्रवरं प्रवृणीरनु - ऐ.ब्रा. ७.२५

*तत्पञ्चदशर्चं भवत्योजो वा इन्द्रियं वीर्यं पञ्चदश ओजः क्षत्त्रं वीर्यं राजन्यस्तदेनमोजसा क्षत्त्रेण वीर्येण समर्धयति। तद्भारद्वाजं भवति भारद्वाजं वै बृहदार्षेयेण सलोमा - ऐ.ब्रा. ८.३

*एतं ह वा ऐन्द्रं महाभिषेकं बृहदुक्थ ऋषिर्दुर्मुखाय पाञ्चालाय प्रोवाच तस्मादु दुर्मुखः पाञ्चालो राजा सन्विद्यया समन्तं पृथिवीं जयन्परीयाय - ऐ.ब्रा. ८.२३

*पुरोहित महिमा : तदप्येतदृषिणोक्तम्। स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येणेति - ऐ.ब्रा. ८.२६

*यूपे पशुनियोजनार्थमुपाकरणाभिधानम् : अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः। - तैत्तिरीय संहिता १.३.७.३

*इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसमृषीणां स्तुतीरुप यज्ञं च मानुषाणाम् - तै.सं. १.४.३८.१

*पुनराधानमन्त्राः :- सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त ऋषयः सप्त धाम प्रियाणि। - तै.सं. १.५.३.२

*अग्न्युपस्थानम् : सं त्वमग्ने सूर्यस्य वर्चसाऽगथाः समृषीणां स्तुतेन सं प्रियेण धाम्ना। - तै.सं. १.५.५.४

*याज्यापुरोनुवाक्याभिधानम् : आ यस्मिन्त्सप्त वासवास्तिष्ठन्ति स्वारुहो यथा। ऋषिर्ह दीर्घश्रुत्तम इन्द्रस्य घर्मो अतिथि: - तै.सं. १.६.१२.२

*हौत्रविवक्षयाऽवशिष्टसामिधेनीमन्त्रव्याख्यानम् : नृमेधश्च परुच्छेपश्च ब्रह्मवाद्यमवदेतामस्मिन्दारावार्द्रेऽग्निं जनयाव यतरो नौ ब्रह्मीयानिति नृमेधोऽभ्यवदत्स  धूममजनयत्परुच्छेपोऽभ्यवदत्सोऽग्निमजनयदृष इत्यब्रवीत् - - - तै.सं. २.५.८.३

*प्रवरमन्त्रस्य निगदस्य स्रुगादापन : ऋषिष्टुत इत्याहर्षयो ह्येतमस्तुवन्विप्रानुमदित इत्याह विप्रा ह्येते यच्छुश्रुवांसः कविशस्त इत्याह कवयो ह्येते यच्छुश्रुवांसो - - - तै.सं. २.५.९.१

*अङ्गिरसो वा इत उत्तमाः सुवर्गं लोकमायन्तदृषयो यज्ञवास्त्वभ्यवायन्ते अपश्यन्पुरोडाशं कूर्मं भूतं सर्पन्तं तमब्रुवन्निन्द्राय ध्रियस्व बृहस्पतये ध्रियस्व विश्वेभ्यो देवेभ्यो ध्रियस्वेति स नाध्रियत तमब्रुवन्नग्नये ध्रियस्वेति सोऽग्नयेऽध्रियत - तै.सं. २.६.३.३

*तृतीयसवनमाध्यंदिनसवनगतहोमविशेष मन्त्राभिधानम् : यज्ञपतिमृषय एनसा आहुः। प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकावच तौ रराध। सं नस्ताभ्यां सृजतु विश्वकर्मा घोरा ऋषयो नमो अस्त्वेभ्यः - तै.सं. ३.२.८.१

*विकृतिरूपद्वादशाहशेषपृश्निग्रहाभिधानम् : प्रजापतिर्विराजमपश्यत्तया भूतं च भव्यं चासृजत तामृषिभ्यस्तिरोऽदधात्तां जमदग्निस्तपसाऽपश्यत्तया वै स पृश्नीन्कामानसृजत - तै.सं.३.३.५.२

*अवभृथाङ्गहोमाद्याभिधानम् : एतेन ह स्म वा ऋषयः पुरा विज्ञानेन दीर्घसत्रमुप यन्ति यो वा उपद्रष्टारमुपश्रोतारमनुख्यातारं विद्वान्यजते सममुष्मिंल्लोक इष्टापूर्तेन गच्छते - - - तै.सं. ३.३.८.५

*राष्ट्रभृन्मन्त्राणां काम्यप्रयोगाभिधानम् : चत्वार आर्षेयाः प्राश्नन्ति दिशामेव ज्योतिषि जुहोति - तै.सं. ३.४.८.७

*काम्ययाज्यापुरोनुवाक्याभिधानम् : ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्। श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्। - तै.सं. ३.४.११.१

*सौमिकब्रह्मत्वविधिः :- ऋषयो वा इन्द्रं प्रत्यक्षं नापश्यन्तं वसिष्ठः प्रत्यक्षमपश्यत्सोऽब्रवीद्ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्तेऽथ मेतरेभ्य ऋषिभ्यो मा प्र वोच इति - तै.सं. ३.५.२.१

*पाशुकहोत्रोपयोगिमन्त्राभिधानम् : तमु त्वा दध्यङ्ङृषिः पुत्र ईधे अथर्वणः। वृत्रहणं पुरंदरम्। - तै.सं.३.५.११.४

*खननाभिधानम् : तमु त्वा दध्यङ्ङृषिः पुत्र ईधे अथर्वणः। वृत्रहणं पुरंदरम्। - तै.सं. ४.१.३.२

*पञ्चपश्वङ्गभूताग्निकसामिधेन्यभिधानम् : समास्त्वाऽग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या। - तै.सं. ४.१.७.१

*प्राणभृदिष्टकाभिधानम् : - - - - - गायत्रादुपांशु उपांशोस्त्रिवृत्त्रिवृतो रथंतरं रथंतराद्वसिष्ठ ऋषिःप्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यो - तै.सं. ४.३.२.१

*- - - अन्तर्यामात्पञ्चदशः पञ्चदशाद्बृहद्बृहतो भरद्वाज ऋषिः प्रजापतिगृहीतया त्वया मनःगृह्णामि प्रजाभ्यो - तै.सं. ४.३.२.१

*सप्तदशाद्वैरूपं वैरूपाद्विश्वामित्र ऋषिः प्रजापतिगृहीतया त्वया चक्षुर्गृह्णामि प्रजाभ्य - तै.सं. ४.३.२.२

*एकविंशाद्वैराजं वैराजाज्जमदग्निर्ऋषिः प्रजापतिगृहीतया त्वया श्रोत्रं गृहणामि प्रजाभ्य - तै.सं. ४.३.२.२

*त्रिणवत्रयस्त्रिंशाभ्यां शाक्वररैवते शाक्वररैवताभ्यां विश्वकर्मर्षिः प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः - तै.सं. ४.३.२.३

*प्राणभृदिष्टकाभिधानम् : अयं पुरो भुवः - - - - - रथंतराद्वसिष्ठ ऋषिः - - - - - - - अयं दक्षिणा विश्वकर्मा तस्य - - - - - पञ्चदशाद्बृहद्बृहतो भरद्वाज ऋषिः - - - - - - -ऽयं पश्चाद्विश्वव्यचास्तस्य - - - - - - सप्तदशाद्वैरूपं वैरूपाद्विश्वामित्र ऋषिः - - - - -एकविंशाद्वैराजं वैराजाज्जमदग्निर्ऋषिः - - - - -इयमुपरि मतिः तस्यै - - - - त्रिणवत्रयस्त्रिंशाभ्यां शाक्वररैवते शाक्वररैवताभ्यां विश्वकर्मर्षिः - तै.सं. ४.३.२.१-३

*अपानभृदिष्टकाभिधानम् : प्राची दिशां - - - सानग ऋषिर्दक्षिणा दिशां ग्रीष्म ऋतूनाम् सनातन ऋषिःप्रतीची दिशां - - - - ऽहभून ऋषिरुदीची दिशां - - - प्रत्न ऋषिरूर्ध्वा दिशां - - - सुपर्ण ऋषिः - तै.सं.४.३.३.२

*द्वितीयचितावश्विन्याख्येष्टकाभिधानम् : ऊर्मिर्द्रप्सो अपामसि विश्वकर्मा त ऋषिरश्विनाऽध्वर्यू सादयतामिह त्वा - तै.सं. ४.३.४.३

*नाकसदाख्येष्टकाभिधानम् : - - - - शाक्वररैवते सामनी प्रतिष्ठित्या अन्तरिक्षायर्षयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु - - - - तै.सं. ४.४.२.३

*विश्वज्योतिराद्या इष्टकाभिधानम् : - - - द्रविणोदां त्वा द्रविणे सादयामि तेनर्षिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद - तै.सं. ४.४.६.२

*सूक्ताभ्यां होमाभिधानम् : य इमा विश्वा भुवनानि जुह्वदृषिर्होता निषसादा पिता नः - तै.सं. ४.६.२.१

*तेषामिष्टानि समिषा मदन्ति यत्र सप्तर्षीन्पर एकमाहुः। - तै.सं. ४.६.२.१

*त आऽयजन्त द्रविणं समस्मा ऋषयः पूर्वे चरितारो न भूना। - तै.सं. ४.६.२.२

*अग्निस्थापनाभिधानम् : सप्त ते अग्ने समिधः सप्त जिह्वाः सप्तर्षयः सप्त धाम प्रियाणि - तै.सं. ४.६.५.५

*केषांचिदश्वस्तोमीयमन्त्राणामभिधानम् : उपप्रागात्सुमन्मेऽधायि मन्म देवानामाशा उपवीतपृष्ठः। अन्वेनं विप्रा ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् - तै.सं. ४.६.८.३

*अग्नियोगाभिधानम् : इमौ ते पक्षावजरौ पतत्रिणो याभ्यां रक्षांस्यपहंस्यग्ने। ताभ्यां पतेम सुकृतामु लोकं यत्रर्षयः प्रथमजा ये पुराणाः। - तै.सं. ४.७.१३.१

*अग्नियोगाभिधानम् : येनर्षयस्तपसा सत्र आसतेन्धाना अग्निं सुवराभरन्तः। तस्मिन्नहं नि दधे नाके अग्निमेतं यमाहुर्मनवः स्तीर्णबर्हिषम् ॥ - तै.सं. ४.७.१३.३

*मृदः खननपूर्वकं चर्मपत्रयोः संभरणम् : तमु त्वा दध्यङ्ऋषिरित्याह दध्यङ्वा आथर्वणस्तेजस्व्यासीत्तेज एवास्मिन्दधाति - तै.सं. ५.१.४.४

*संभृतमृदो यज्ञभूमौ समाहरणम् : रासभः पत्वेति आह रासभ इति ह्येतमृषयोऽवदन् - तै.सं. ५.१.५.७

*उख्यधारणम् : न ह स्म वै पुराऽग्निरपरशुवृक्णं दहति तदस्मै प्रयोग एवर्षिरस्वदयद्यदग्ने यानि कानि चेति समिधमा दधात्यपरशुवृक्णमेवास्मै स्वदयति - तै.सं. ५.१.१०.१

*असपत्नविराडाख्येष्टकाभिधानम् : यानि वै छन्दांसि सुवर्ग्याण्यासन्तैर्देवाः सुवर्गं लोकमायन्तेनर्षयःअश्राम्यन्ते तपोऽतप्यन्त तानि तपसाऽपश्यन्तेभ्य एता इष्टका निरमिमत - तै.सं. ५.३.५.३

*ऋतव्यादीष्टकात्रयप्रोक्षणयोरभिधानम् : अङ्गिरसः सुवर्गं लोकं यन्तो या यज्ञस्य निष्कृतिरासीत्तामृषिभ्यः प्रत्यौहन्तद्धिरण्यमभवद् - तै.सं. ५.४.२.३

*प्रजापतिर्वा अथर्वाऽग्निरेव दध्यङ्ङाथर्वणस्तस्येष्टका अस्थान्येतं ह वाव तदृषिरभ्यनूवाचेन्द्रो दधीचो अस्थभिरिति - तै.सं. ५.६.६.३

*होमविशेषाणां राष्ट्रभृदिष्टकानां चाभिधानम् : भद्रं पश्यन्त उप सेदुरग्रे तपो दीक्षामृषयः सुवर्विदः। - तै.सं. ५.७.४.३

*पुनः परीन्धनाद्यभिधानम् : तस्मादयातयाम्नी लोकंपृणाऽयातयामा ह्यसौ आदित्यस्तानृषयोऽब्रुवन्नुप व आऽयामेति - - - - तै.सं. ५.७.५.७

*आकूतिमन्त्राभिधानम् : तमनु प्रेहि सुकृतस्य लोकं यत्रर्षयः प्रथमजा ये पुराणाः - तै.सं. ५.७.७.१

*यूपस्थापनाभिधानम् : यज्ञेन वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति ते यूपेन योपयित्वा सुवर्गं लोकमायन्तमृषयो यूपेनैवानु प्राजानन्तद्यूपस्य यूपत्वम् - तै.सं. ६.३.४.७

*अवदानाभिधानम् : जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य - तै.सं. ६.३.१०.५

*ऋतुग्रहकथनम् : यज्ञेन वै देवाः सुवर्गं लोकमायन्तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्तीति ते संवत्सरेण योपयित्वा सुवर्गं लोकमायन्तमृषय ऋतुग्रहैरेवानु प्राजानन् - तै.सं. ६.५.३.१

*दक्षिणाहोमकथनम् : ऋषिमार्षेयमित्याहैष वै ब्राह्मण ऋषिरार्षेयो यः शुश्रुवान्तस्मादेवमाह - तै.सं. ६.६.१.४

*अश्वमेधगतमन्त्रकथनम् : अर्वाङ्यज्ञः सं क्रामत्वमुष्मादधि मामभि। ऋषीणां यः पुरोहितः। - तै.सं. ७.३.११.१

*ऋषिकृतं च वा एते देवकृतं च पूर्वैर्मासैरव रुन्धते यद्भूतेच्छदां सामानि भवन्ति - तै.सं. ७.५.९.३

*चत्वार आर्षेयाः प्राश्नन्ति। दिशामेव ज्योतिषि जुहोति। - तैत्तिरीय ब्राह्मण १.१.६.६

*अहे बुध्निय मन्त्रं मे गोपाय यमृषयस्त्रयिविदा विदुः। ऋचः सामानि यजूंषि। सा हि श्रीरमृता सताम्  - तै.ब्रा. १.२.१.२६

*यः पावमानीरध्येति। ऋषिभिः संभृतं रसम्। सर्वं स पूतमश्नाति। स्वदितं मातरिश्वना। - तै.ब्रा. १.४.८.४

*पावमानीः स्वस्त्ययनीः। सुदुघा हि पयस्वतीः। ऋषिभिः संभृतो रसः। ब्राह्मणेष्वमृतं हितम्। - तै.ब्रा. १.४.८.५

*आघारावाघारयति। यज्ञपरुषोरनन्तरित्यै। नाऽऽर्षेयं वृणीते। न होतारम्। यदार्षेयमं वृणीते। यद्धोतारम्। प्रमायुको यजमानः स्यात्। प्रमायुको होता। - तै.ब्रा. १.६.९.१

*अयं कृत्नुरगृभीतः। विश्वजिदुद्भिदित्सोमः। ऋषिर्विप्रः काव्येन - तै.ब्रा. २.४.७.६

*वयः सुपर्णा उपसेदुरिन्द्रम्। प्रियमेधा ऋषयो नाधमानाः। अप ध्वान्तमूर्णुहि पूर्धि चक्षुः। मुमुग्ध्यस्मान्निधयेव बद्धान् - तै.ब्रा. २.५.८.३

*त्वामद्यर्ष आर्षेयर्षीणां नपादवृणीत - तै.ब्रा. २.६.१५.२

*राजाभिषेकः :-व्याघ्रोऽयमग्नौ चरति प्रविष्टः। ऋषीणां पुत्रो अभिशस्तिपा अयम्। नमस्कारेण नमसा ते जुहोमि। मा देवानां मिथुया कर्म भागम्। - तै.ब्रा. २.७.१५.१

*नमस्त ऋषे गद। अव्यधायै त्वा स्वधायै त्वा। (इति पुरोहितमभिमन्त्रयते) - तै.ब्रा. २.७.१६.१

*अग्ने महां असि ब्राह्मणभारत। असावसौ। देवेद्धो मन्विद्धः। ऋषिष्टुतो विप्रानुमदितः। - - तै.ब्रा. ३.५.३.१

*तुभ्यं स्तोका घृतश्चुतः। अग्ने विप्राय सन्त्य। ऋषिः श्रेष्ठः समिध्यसे। यज्ञस्य प्राविता भव। - तै.ब्रा. ३.६.७.२

*सूक्तवाकविषयो मैत्रावरुणप्रैषः : - - - - अवीवृधेता पुरोडाशेन त्वामद्यर्ष आर्षेयर्षीणां नपादवृणीत - तै.ब्रा. ३.६.१५.१

*प्रस्तरे साद्यमानाया जुह्वा अनुमन्त्रम् : आरोह पथो जुहु देवयानान्। यत्रर्षयः प्रथमजा ये पुराणाः। हिरण्यपक्षाऽजिरा संभृताङ्गा। वहासि मा सुकृतां यत्र लोकाः। - तै.ब्रा. ३.७.६.८

*पात्र्यां राजतं रुक्मं निधाय तस्मिन्ब्रह्मौदनमुद्धृत्य - - - - : सर्पिष्वान्भवति मेध्यत्वाय। चत्वार आर्षेयाः प्राश्नन्ति। दिशामेव ज्योतिषि जुहोति। - तै.ब्रा. ३.८.२.२

*वैश्वसृजचयनम् : - - - सर्वास्ता इष्टकाः कृत्वा। उप कामदुघा दधे। तेनर्षिणा तेन ब्रह्मणा। तया देवतयावङ्गिरस्वद्ध्रुवा सीद। - तै.ब्रा. ३.१२.६.१

*सर्वं सुवर्णं हरितम्। देवत्रा यच्च मानुषम्। सर्वास्ता इष्टकाः कृत्वा। उप कामदुघा दधे। तेनर्षिणा तेन ब्रह्मणा। तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद। - तै.ब्रा. ३.१२.६.६

*सर्वा दिशो दिक्षु। यच्चान्तर्भूतं प्रतिष्ठितम्। सर्वास्ता इष्टकाः कृत्वा। उप कामदुघा दधे। तेनर्षिणा तेन  ब्रह्मणा। तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद। - तै.ब्रा. ३.१२.७.१

*अभ्यन्तरलेखायामुपधानमन्त्राः :- सर्वान्दिवं सर्वान्देवान्दिवि। यच्चान्तर्भूतं प्रतिष्ठितम्। सर्वास्ता इष्टकाः कृत्वा। उप कामदुघा दधे। तेनर्षिणा तेन ब्रह्मणा। तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद। - तै.ब्रा. ३.१२.८.१

*सर्वं भूतं सर्वं भव्यम्। यच्चातोऽधिभविष्यति। सर्वास्ता इष्टकाः कृत्वा। उप कामदुघा दधे। तेनर्षिणा तेन ब्रह्मणा। तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद। - तै.ब्रा. ३.१२.८.३

*साकंजानां सप्तथमाहुरेकजम्। षडुद्यमा ऋषयो देवजा इति। (साकंजानामित्येकादश पुरस्तात्) - तैत्तिरीय आरण्यक १.३.१

*आ यस्मिन्त्सप्त वासवाः। रोहन्ति पूर्व्या रुहः। ऋषिर्ह दीर्घश्रुत्तमः। इन्द्रस्य घर्मो अतिथिरिति - तै.आ. १.८.८

*नैतमृषिं विदित्वा नगरं प्रविशेत्। यदि प्रविशेत्। मिथौ चरित्वा प्रविशेत्। तत्संभवस्य व्रतम्। - तै.आ. १.११.७

*केतवो अरुणासश्च। ऋषयो वातरशनाः। प्रतिष्ठां शतधा हि। (आपमापामिति नवोपरिष्टात्) - तै.आ. १.२१.३

*तं वा एतमरुणाः केतवो वातरशना ऋषयोऽचिन्वन्। तस्मादारुणकेतुकः। तदेषाऽभ्यनूक्ता। केतवो अरुणासश्च। ऋषयो वातरशनाः। प्रतिष्ठां शतधा हि। समाहितासो सहस्रधायसमिति - तै.आ. १.२४.४

*सप्तदश क्षपण्यः :- सिकता इव संयन्ति। रश्मिभिः समुदीरिताः। अस्माल्लोकादमुष्माच्च। ऋषिभिरदात्पृश्निभिः। - तै.आ. १.२७.५

*उपस्थानमन्त्रम् : केतवो अरुणासश्च। ऋषयो वातरशनाः। प्रतिष्ठां शतधा हि। समाहितासो सहस्रधायसम्। - तै.आ. १.३१.६

*कूष्माण्डहोमगत मन्त्राः :- अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः। तमीमहे महागयम्। - तै.आ. २.५.२

*वातरशना ह वा ऋषयः श्रमणा ऊर्ध्वमन्थिनो बभूवुस्तानृषयोऽर्थमायँस्ते निलायमचरंस्तेऽनुप्रविशुःकूश्माण्डानि तांस्तेष्वन्वविन्दञ्छ|द्धया च तपसा च। तानृषयोऽब्रुवन्कथा निलायं चरथेति स ऋषीनब्रुवन्नमो वोऽस्तु भगवन्तोऽस्मिन्धाम्नि केन वः सपर्यामेति तानृषयोऽब्रुवन्पवित्रं नो ब्रूत येनारेपसःस्यामेति त एतानि सूक्तान्यपश्यन् - तै.आ. २.७.१

*अजान्ह वै पृश्नींस्तपस्यमानान्ब्रह्म स्वयंभ्वभ्यानर्षत्त ऋषयोऽभवन्तदृषीणामृषित्वं तां देवतामुपातिष्ठन्त यज्ञकामास्त एतं ब्रह्मयज्ञमपश्यत् - तै.आ. २.९.१

*अपहतपाप्मानो देवाः स्वर्गं लोकमायन्ब्रह्मणः सायुज्यमृषयोऽगच्छन् - तै.आ. २.९.१

*- - - चन्द्रमसो रोहिणी। ऋषीणामरुन्धती। - - तै.आ. ३.९.२

*भद्रं पश्यन्त उपसेदुरग्रे। तपो दीक्षामृषयः सुवर्विदः। ततः क्षत्रं बलमोजश्च जातम्। तदस्मै देवा अभिसंनमन्तु - तै.आ. ३.११.९

*तं यज्ञं बर्हिषि प्रौक्षन्। पुरुषं जातमग्रतः। तेन देवा अयजन्त। साध्या ऋषयश्च ये। - तै.आ. ३.१२.३

*नमो वाचस्पतये नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मा मामृषयो मन्त्रकृतो मन्त्रपतयः। परादुर्माऽहमृषीन्मन्त्रकृतो मन्त्रपतीन्परादाम्। - तै.आ. ४.१.१

*यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन। इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः। - तै.आ. ६.५.१

*यथा पञ्च यथा षड् यथा पञ्चदशर्षयः। यमं यो विद्यात्स ब्रूयाद्यथैक ऋषिर्विजानते। - तै.आ. ६.५.२

*एतदधिविधाय ऋषिरवोचत्। पाङ्क्तं वा इदं सर्वम्। पाङ्क्तेनैव पाङ्क्तं स्पृणोति - तै.आ. ७.७.१

*- - - -सता शिक्यः प्रोवाचोपनिषदिन्द्रो ज्येष्ठ इन्द्रियाय ऋषिभ्यो नमो देवेभ्यः स्वधा पितृभ्यो भूर्भुवः सुवरोम्। - तै.आ. १०.६.१

*ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् - तै.आ. १०.१०.१

*त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्माऽऽगतश्रीरुत त्वया। त्वया जुष्टश्चित्रं विन्दते वसु नो जुषस्व द्रविणेन मेधे - तै.आ. १०.३९.१

*ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्। - तै.आ. १०.५०.१

*मानसा ऋषयः प्रजा असृजन्त मानसे सर्वं प्रतिष्ठितं तस्मान्मानसं परमं वदन्ति - तै.आ. १०.६३.१

*ओं गायत्रीमावाहयामि सावित्रीमावाहयामि सरस्वतीमावाहयामि छन्दर्षीनावाहयामि - - - गायत्री च्छन्दो विश्वामित्र ऋषिः सविता देवता - - - - - तै.आ. १०.३५.१परिशिष्ट

*वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः। अपध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेऽवबद्धान् - तै.आ. १०.७३.१परिशिष्ट

*द्वादशाहं प्रजापतिर् द्वादशाहं देवाश् चर्षयश् च। - जैमिनीय ब्राह्मण १.३७

*अन्नस्य मा तेजसा स्वर्गं लोकं गमय। यत्र देवानाम् ऋषीणां प्रियं धाम तत्र म इदम् अग्निहोत्रं गमय इति। - जै.ब्रा. १.४०

*स यां प्रथमां जुहोति देवांस् तयाप्नोति। अथ यां द्वितीयां जुहोत्य् ऋषींस् तयाप्नोति। - जै.ब्रा. १.४०

*अथ या एतास् स्रुचो निर्णिज्योदीचीर् अप उत्सिञ्चति तेन ऋषीन् प्रीणाति। - जै.ब्रा. १.४१

*तं ह वै मनोजवसः पितरश् च पितामहाश् च प्रत्यागच्छन्ति ततः किं न आहार्षीर् इति। - जै.ब्रा. १.५०

*स्वर्भानुर् वा आसुर आदित्यं तमसाविध्यत्। तं देवाश् चर्षयश् चाभिषज्यन्। ते ऽत्रिम् अब्रुवन्न् ऋषि त्वम् इदम् अपजहीति। तथेति। - जै.ब्रा. १.८०

*पयस् सहस्रसाम् ऋषिम् इति। पयस्वान् एव भवत्य् आस्य सहस्रसा वीरो जायते। - जै.ब्रा. १.९३

*स(इन्द्रः) होवाचर्षे कम् इमं जनं वर्धयस्य् अस्माकं वै त्वम् असि वयं वा तवास्मान् अभ्युपावर्तस्वेति। - - - - - स होवाचर्षे ऽनु वै नाव् इमे ऽसुरा अग्मन्न् इति। स वै तथा कुर्व् इति होवाच यथा नाव् एतेनान्वागच्छान् इति। - जै.ब्रा. १.१२६

*तै हागतौ महयांचक्रे - ऋषिर् विप्रः पुरएता जनानाम् ऋभुर् धीर उशना काव्येन। स चिद् विवेद निहितं यद् आसाम् अपीच्यं गुह्यं नाम गोनाम् ॥ इति - जै.ब्रा. १.१२७

*स होवाचर्षिर् अस्मि मन्त्रकृत् स ज्योग् अप्रतिष्ठितो ऽचार्षं तस्मै म एतद् दत्त येन प्रतितिष्ठेयम् इति। तस्मै ह ब्रह्मणो रसस्य ददुः। तद् एव नौधसम् अभवत्~। - जै.ब्रा. १.१४७

*अष्टादंष्ट्रो वै वैरूपः पश्चेवान्येभ्य ऋषिभ्य एते सामनी अपश्यत्। सो ऽबिभेद् अस्तोत्रीये मे सामनी भविष्यत इति। - जै.ब्रा. १.१९१

*दिवोदासो वै वाध्र्यश्विर् अकामयतोभयं ब्रह्म च क्षत्रं चावरुन्धीय राजा सन्न् ऋषिस् स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स उभयं ब्रह्म च क्षत्रं चावारुन्द्ध राजा सन्न् ऋषिर् अभवत्~ - जै.ब्रा. १.२२२

*सप्तर्षयः प्रतिहितास् सुभूते सप्त पश्यन्ति बहुधा निविष्टौ। सप्तैतं लोकं उपयन्त्य् आपो ऽस्वप्नजौ सत्त्रसदौ यत्र देवा ॥ इति। सप्तर्षयः प्रतिहितास् सुभूत इति पुरुषो वै सुभूतम्। त इमे सप्तर्षयःप्रतिहिताः प्राणा एव। - जै.ब्रा. २.२७

*अथ ह वै त्रयः पूर्व ऋषय आसुश् शूर्पयवम् अध्वाना अन्तर्वान् कृषिस् सोल्वालाः। ते ह यज्ञस्य कृन्तत्राणि ददृशुः। तस्यैताः प्रायश्चित्तीर् ददृशुः - - - - - जै.ब्रा. २.४१

*अथैष पुनस्तोमः। स हायम् ऋषिर् आगत्य न शशाकोत्थातुम् असुराशनेन। गरो हैनम् आविवेश, यद् वा मित्राय दुद्रोह, यद्वा विद्विषाणानाम् अशनम् आश। स हेन्द्रम् उवाच - - - - - -जै.ब्रा. २.८३

*तान् देवाश् चर्षयश् चोपसमेत्याब्रुवन् - विच्छेत्स्यन्ते वा अदक्षिणा यज्ञाः, प्रतिगृह्णीतेति। - - - - जै.ब्रा. २.११६

*अथैत ऋषिष्टोमाः। ऋषयो ह वै स्वर्गं लोकं जिग्युः श्रमेण तपसा व्रतचर्येण। ते ऽकामयन्त - प्रजा अस्मिन् लोके विधाय स्वर्गं लोकं गच्छेमेति। स वसिष्ठो ऽकामयत - - - - - जै.ब्रा. २.२१७

*अथाकामयतात्रिर् भूयिष्ठा म ऋषयः प्रजायाम् आजायेरन्न् इति। स एतं त्रिणवं स्तोमम् अपश्यत् - जै.ब्रा. २.२१९

*तद् उ वावागस्त्यः पश्चेवानुबुबुध - ऋषयो ह वा इमे प्रजा अस्मिन् लोके विधाय स्वर्गं लोकम् अग्मन्न् इति। सो ऽकामयताहम् अपि प्रजा अस्मिन् लोके विधाय - - - - - जै.ब्रा. २.२२०

*यर्हि वा एतेन पुरेजिरे, सर्वम् एव वीर्यवद् आस - ऋषिर् ह स्म मन्त्रकृद् ब्राह्मण आजायते, ऽतिव्याधी राजन्यश् शूरः, - - - - जै.ब्रा. २.२६६

*तम् (गौरिवीतम्) तार्क्ष्यस् सुपर्ण उपरिष्टाद् अभ्यवापतत्। तस्मा उपप्रत्यधत्त। तम् अब्रवीद् - ऋषे, मा मे ऽस्थः। श्वस्तनं ते वक्ष्यामि। - जै.ब्रा. ३.१८

*पवस्व वाचो अगि|य इति प्रतिपदो भवन्ति। प्रेत्य् अन्य ऋषयो ऽपश्यन्न् एत्य् अन्ये। अथैतन् न प्रेति नेति स्थितम्। वाचो बार्हतं रूपं भरद्वाज ऋषिर् अपश्यत्। भरद्वाजस्य वा एतद् आर्षेयं यद्बृहत्। - जैमिनीय ब्राह्मण ३.२०

*अग्निं दूतं वृणीमह इत्य् आग्नेयम् आज्यम् भवति। प्रेत्य् अन्य ऋषयो ऽपश्यन्न् एत्य् अन्ये। अथैतन् न प्रेति नेति स्थितम्। वाचो बार्हतं रूपं भरद्वाज ऋषिर् अपश्यत्। भरद्वाजस्य वा एतद् आर्षेयं यद्बृहत्। - जै.ब्रा. ३.२२

*तद् यत् पुरस्ताद् यौक्ताश्वं भवति वासिष्ठम् उपरिष्टाद् ऋषिसामनी ब्रह्मण एव स विवधतायै। - जै.ब्रा.३.२६

*तद् ये च ह वै गोतमाद् ऋषयः पराञ्चो ये चार्वाञ्चस् ते गोतमम् एवर्षिम् उभय उपासते। - जै.ब्रा. ३.४४

*ये त्वा मृजन्त्य् ऋषिषाण वेधस इति मृजन्तीव वै जातम्। - जै.ब्रा. ३.५८

*स होवाच - च्यवनो वै स भार्गवो ऽभूत्। स वास्तुपस्य ब्राह्मणं वेद। तं नूनं पुत्रा वास्तौ हित्वा प्रायासिषुर् इति। तम् आद्रुत्याब्रवीद् ऋषि, नमस् ते ऽस्तु - जै.ब्रा. ३.१२२

*तं होचतुर् - ऋषे ऽपिसोमौ नौ भगवः कुर्व् इति। तथेति होवाच। - - - जै.ब्रा. ३.१२५

*तौ ह दध्यञ्चम् आथर्वणम् आजग्मतुः। तं होचतुर् ऋष उप त्वायावेति। कस्मै कामायेति - जै.ब्रा. ३.१२६

*ऋषीणां वा अग्रे मन्त्रश् चैव प्रजा चासीन् न पशवः। ते ऽकामयन्ताव पशून् रुन्धीमहीति। ते संवत्सरे पशून् पर्यपश्यन्। - जै.ब्रा. ३.१३०

*इन्द्रो वै वृत्रम् अजिघांसत्। स विश्वामित्रम् उपाधावद् - ऋष उप त्वा धावाम, इह नो ऽधिब्रूहीति। स  एतद् विश्वामित्रस् सामापश्यत् - जै.ब्रा. ३.१३४

*अथ ह वै वैखानसा इत्य् ऋषिका इन्द्रस्य प्रिया आसुः। तान् ह रहस्युर् मारिम्लवो मारयांचकार - जै.ब्रा. ३.१९०

*ऋषिमना य ऋषिकृत् स्वर्षास् सहस्रनीथः पदवीः कवीनाम् इति सहस्ररूपं छन्दोमानाम् उपगच्छन्ति। पशवो वै छन्दोमाः - जै.ब्रा. ३.२०५

*अथ प्रमंहिष्ठीयम्। ऋषीणां वै सत्रम् आसीनानां पशव उपादस्यन्। ते ऽकामयन्ताव पशून् रुन्धीमहीति। ते होचुर् - एताग्निम् एव पशून् याचाम। - जै.ब्रा. ३.२२५

*तद् व् एवाचक्षते ऽङ्गिरस्यानां सामेति। आङ्गिरस्या ह वै नामर्षीणां पुत्रा आसुः। ते ऽकामयन्त स्वर्गं लोकम् अश्नुवीमहीति। त एतत् सामापश्यन्। - जै.ब्रा. ३.२३७

 Previous page