PURAANIC SUBJECT INDEX

(From Nala to Nyuuha )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE


Nala - Nalini( words like  Nala, Nalakuubara, Nalini etc.)

Nava - Naaga ( Nava, Navaneeta / butter, Navami / 9th day, Navaratha, Navaraatra, Nahusha, Naaka, Naaga / serpent  etc.)

Naaga - Naagamati ( Naaga / serpent etc.)

Naagamati - Naabhi  ( Naagara, Naagavati, Naagaveethi, Naataka / play, Naadi / pulse, Naadijangha, Naatha, Naada, Naapita / barber, Naabhaaga, Naabhi / center etc. )

Naama - Naarada (Naama / name, Naarada etc.)

Naarada - Naaraayana (  Naarada - Parvata, Naaraayana etc.)

Naaraayani - Nikshubhaa ( Naaraayani, Naarikela / coconut, Naaree / Nari / lady, Naasatya, Naastika / atheist, Nikumbha, Nikshubhaa  etc.)

Nigada - Nimi  ( Nigama, Nitya-karma / daily ablutions, Nidhaagha, Nidra / sleep, Nidhi / wealth, Nimi etc.)

Nimi - Nirukta ( Nimi, Nimesha, Nimba, Niyati / providence, Niyama / law, Niranjana, Nirukta / etymology etc. )

 Nirodha - Nivritti ( Nirriti, Nirvaana / Nirvana, Nivaatakavacha, Nivritti etc. )

Nivesha - Neeti  (Nishaa / night, Nishaakara, Nishumbha, Nishadha, Nishaada, Neeti / policy etc. )

Neepa - Neelapataakaa (  Neepa, Neeraajana, Neela, Neelakantha etc.)

Neelamaadhava - Nrisimha ( Neelalohita, Nriga, Nritta, Nrisimha etc.)

Nrihara - Nairrita ( Nrisimha, Netra / eye, Nepaala, Nemi / circumference, Neshtaa, Naimishaaranya, Nairrita etc.)

Naila - Nyaaya ( Naivedya, Naishadha, Naukaa / boat, Nyagrodha, Nyaaya etc.)

Nyaasa - Nyuuha ( Nyaasa etc. )

 

 

दश त्वा एते सोम अंशवः ।
प्रत्नो अंशुर् यम् एतम् अभिषुण्वन्ति ।
तृप्तो अंशुर् आपः ।
रसो अंशुर् व्रीहिः ।
वृषो अंशुर् यवः ।
शुक्रो अंशुः पयः ।
जीवो अंशुः पशुः ।
अमृतो अंशुर् हिरण्यम् ।
ऋग् अंशुर् यजुर् (यजुर्) अंशुः साम अंशुर् इति ।
एत वा उ दश सोम अंशवः ।
यदा वा एते सर्वे संगच्छन्ते ।
अतः सोमो अतः सुतः । - कौशीतकि ब्राह्मणम् १३.४

तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् ।
अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥ऋ. १.८९.३

स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनाम् ।
विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन्द्रविणोदाम् ॥ऋ. १.९६.२
यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥ऋ. १.१७५.६
 
 

जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु ।
अच्छा राजाना नम एत्यावृतं प्रशास्त्रादा पिबतं सोम्यं मधु ॥ऋ. २.३६.६

किमु ष्विदस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः ।

ममैतान्पुत्रो महता वधेन वृत्रं जघन्वाँ असृजद्वि सिन्धून् ॥ऋ. ४.१८.७

वि यद्वाचं कीस्तासो भरन्ते शंसन्ति के चिन्निविदो मनानाः ।
आद्वां ब्रवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा ॥ऋ. ६.६७.१०
 

तस्य निश्चिन्ता ध्यानम् ।

सर्वकर्मनिराकरणमावाहनम् ।

निश्चयज्ञानमासनम् ।

उन्मनीभावः पाद्यम् ।

सदाऽमनस्कमर्घ्यम् ।

सदादीप्तिरपारामृतवृत्तिः स्नानम् ।

सर्वत्र भावना गन्धः ।

दृक्स्वरूपावस्थानमक्षताः ।

चिदाप्तिः पुष्पम् ।

चिदग्निस्वरूपं धूपः ।

चिदादित्यस्वरूपं दीपः ।

परिपूर्णचन्द्रामृतरसस्यैकीकरणं नैवेद्यम् ।

निश्चलत्वं प्रदक्षिणम् ।

सोहंभावो नमस्कारः ।

मौनं स्तुतिः ।

सर्वसन्तोषो विसर्जनमिति य एवं वेद ॥मण्डलब्राह्मणोपनिषत् २.२.५

अभिषेकादात्मशुद्धिर्गंधात्पुण्यमवाप्यते
आयुस्तृप्तिश्च नैवेद्याद्धूपादर्थमवाप्यते १६
दीपाज्ज्ञानमवाप्नोति तांबूलाद्भोगमाप्नुयात्
तस्मात्स्नानादिकं षट्कं प्रयत्नेन प्रसाधयेत् शिवपुराणम् १.१६.१७

 
शब्दकल्पद्रुमः -
 

नैवेद्यं, क्ली, (निवेदं निवेदनमर्हतीति । निवेद + ष्यञ् ।) देवाय निवेदनीयद्रव्यम् । तस्य निरुक्तिर्यथा, --

चतुर्व्विधं कुलेशानि द्रव्यं ते षड्रसान्वितम् ।

निवेदनात् भवेत्तृप्तिर्नैवेद्यं तदुदाहृतम् ॥

इति कुलार्णवे १७ उल्लासः ॥

तद्द्रव्याणि यथा, --

ससितेन सुशुद्धेन पायसेन ससर्पिषा ।

सितोदनं सकदलिदध्याद्यैश्च निवेदयेत् ॥

इति प्रपञ्चसारः ॥

तत् पञ्चविधम् । यथा, --

निवेदनीयं यद्द्रव्यं प्रशस्तं प्रयतं तथा ।

तद्भक्ष्यार्हं पञ्चविधं नैवेद्यमिति कथ्यते ॥

भक्ष्यं भोज्यञ्च लेह्यञ्च पेयं चूष्यञ्च पञ्चमम् ।

सर्व्वत्र चैतन्नैवेद्यमाराध्यास्यै निवेदयेत् ॥ *

तत् पात्रं यथा, --

तैजसेषु च पात्रेषु सौवर्णे राजते तथा ।

ताम्रे वा प्रस्तरे वापि पद्मपत्रेऽथवा पुनः ॥

यज्ञदारुमये वापि नैवेद्यं स्थापयेद्बुधः ।

सर्व्वाभावे च माहेये स्वहस्तघटिते यदि ॥

इति तन्त्रसारः ॥ * ॥

तद्दानफलं यथा, --

नैवेद्येन भवेत् स्वर्गो नैवेद्येनामृतं भवेत् ।

धर्म्मार्थकाममोक्षाश्च नैवेद्येषु प्रतिष्ठिताः ॥

सर्व्वयज्ञफलं नित्यं नैवेद्यं स्रर्व्वतुष्टिदम् ।

ज्ञानदं मानदं पुण्यं सर्व्वभोग्यमयं तथा ॥

मनसापि महादेव्यै नैवेद्यं दातुमिच्छति ।

यो नरो भक्तियुक्तः सन् दीर्घायुः स सुखी भवेत् ॥

महामायां कदा देवीमर्च्चयिष्यामि शक्तितः ।

नानाविधैस्तु नैवेद्यैरिति चिन्ताकुलस्तु यः ।

स सर्व्वकामान् संप्राप्य मम लोके महीयते ॥

इति कालिकापुराणे । १६९ । १७० । अध्यायः ॥

तत्कालो यथा, --

अर्व्वाक् विसर्ज्जनाद्द्रव्यं नैवेद्यं सर्व्वमुच्यते ।

विसर्ज्जिते जगन्नाथे निर्म्माल्यं भवति क्षणात् ॥

पञ्चरात्रविदो मुख्या नैवेद्यं भुञ्जते सुखम् ॥

इति गरुडपुराणम् ॥

तस्य स्थापनक्रमो यथा, -- गौतमीये ।

नैवेद्यं दक्षिणे भागे पुरतो वा न पृष्ठतः ॥

दक्षिणभागस्तु देवताया एव न तु साधकस्य ।

पक्वञ्च देवतावामे आमान्नञ्चैव दक्षिणे ॥

पुरश्चरणचन्द्रिकायाम् ।

दक्षिणन्तु परित्यज्य वामे चैव निधापयेत् ।

अभोज्यं तद्भवेदन्नं पानीयञ्च सुरोपमम् ॥

इति तन्त्रसारः ॥

तन्मुद्रा यथा, --

नैवेद्यमुद्रामङ्गुष्ठकनिष्ठाभ्यां प्रदर्शयेत् ।

कनिष्ठानामिकाङ्गुष्ठैर्मुद्रा प्राणस्य कीर्त्तिता ॥

तर्ज्जनीमध्यमाङ्गुष्ठैरपानस्य तु मुद्रिका ।

अनामामध्यमाङ्गुष्ठैरुदानस्य तु सा स्मृता ॥

तर्ज्जन्यनामामध्याभिः साङ्गुष्ठाभिश्चतुर्थिका ।

सर्व्वाभिः सा समानस्य प्राणाद्यन्नेषु योजिता ॥

तारपूर्ब्बां जपेन्मुद्रां प्राणादीनां प्रदर्शयेत् ॥

इति यामलः ॥

ब्राह्मणाय तत्समर्पणं यथा, --

साक्षात् खादति नैवेद्यं विप्ररूपी जनार्द्दनः ।

ब्राह्मणे परितुष्टे च सन्तुष्टाः सर्व्वदेवताः ॥

देवाय दत्त्वा नैवेद्यं द्बिजाय न प्रयच्छति ।

भस्मीभूतञ्च नैवेद्यं पूजनं निष्फलं भवेत् ॥

देवदत्तं न भोक्तव्यं नैवेद्यञ्च विना हरेः ।

प्रशस्तं सर्व्वदेवेषु विष्णोर्नैवेद्यभोजनम् ॥

शूदस्य तद्भक्षणविधिर्यथा, --

शूद्रश्चेद्धरिभक्तश्च नैवेद्यभोजनोत्सुकः ।

आमान्नं हरये दत्त्वा पाकं कृत्वा च खादति ॥

इति श्रीकृष्णजन्मखण्डे २१ अध्यायः ॥ * ॥

विष्णुनैवेद्यभोजनफलादि स्कान्दे ।

कृत्वा चैवोपवासन्तु भोक्तव्यं द्वादशीदिने ।

नैवेद्यं तुलसीमिश्रं हत्याकोटिविनाशनम् ॥

पाद्मे ।

हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ।

पादोदकञ्च निर्म्माल्यं मस्तके यस्य सोऽच्युतः ॥

स्कान्दे ।

अग्निष्टोमसहस्रैश्च वाजपेयशतैस्तथा ।

तुल्यं फलं भवेद्देवि ! विष्णोर्नैवेद्यभक्षणात् ॥

पादोदकञ्च निर्म्माल्यं नैवेद्यञ्च विशेषतः ।

महाप्रसाद इत्युक्त्वा ग्राह्यं विष्णोः प्रयत्नतः ॥

वह्वृचगृह्यपरिशिष्टे ।

पवित्रं विष्णुनैवेद्यं सुरसिद्धर्षिभिः स्मृतम् ।

अन्यदेवस्य नैवेद्यं भुक्त्वा चान्द्रायणञ्चरेत् ॥

स्वदत्तमिति विशेषणीयम् ॥ स्मृतौ ।

ब्रह्मचारिगृहस्थैश्च वनस्थयतिभिस्तथा ।

भोक्तव्यं विष्णनैवेद्यं नात्र कार्य्या विचारणा ॥

इत्येकादशीतत्त्वम् ॥

अपि च ।

विष्णोर्निवेदितं पुष्पं नैवेद्य वा फलं जलम् ।

प्राप्तिमात्रेण भोक्तव्यं त्यागेन ब्रह्महा जनः ॥

भ्रष्टश्रीर्भ्रष्टबुद्धिश्च भ्रष्टज्ञानो भवेन्नरः ।

यस्त्यजेद्विष्णुनैवेद्यं भाग्येनोपस्थितं शुभम् ॥

प्राप्तिमात्रेण यो भुङ्क्ते भक्त्या विष्णुनिवेदितम् ।

पुंसां शतं समुद्धृत्य जीवन्मुक्तः स्वयं भवेत् ॥

विष्णुनैवेद्यभोजी यो नित्यं वा प्रणमेद्धरिम् ।

पूजयेत् स्तौति वा भक्त्या स विष्णुसदृशो भवेत् ॥

पुंश्चल्यन्नमवीरान्नं शूद्रश्राद्धान्नमेव च ।

यद्धरेरनिवेद्यञ्च वृथामांसमभक्षणम् ॥

शिवलिङ्गप्रदत्तान्नं यदन्नं शूद्रयाजिनाम् ।

चिकित्सकद्बिजान्नञ्च देवलान्नं तथैव च ॥

कन्याविक्रयिणामन्नं यदन्नं योनिजीविनाम् ।

अशुद्धान्नं पर्य्युषितं सर्व्वभक्ष्यावशेषकम् ॥

शूद्रापतिद्बिजान्नञ्च वृषवाहद्विजान्नकम् ।

अदीक्षितद्विजानाञ्च यदन्नं शवदाहिनाम् ॥

अगम्यागामिनाञ्चैव द्विजानामन्नमेव च ।

मित्रद्रुहां कृतघ्नानामन्नं विश्वासघातिनाम् ॥

मिथ्यासाक्ष्यप्रदानाञ्च ब्राह्मणानान्तथैव च ।

एतत् सर्व्वं विशुध्येत विष्णोर्नैवेद्यभक्षणात् ॥

इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३० अध्यायः ॥ *

विष्णोर्निवेदितान्नेन यष्टव्याः सर्व्वदेवताः ।

पितरोऽतिथयश्चैवमिति वेदेषु विश्रुतम् ॥

अमृतं सर्व्ववस्तूनां मिष्टं सारं सुदुर्लभम् ।

विष्णोर्निवेदितान्नस्य कलां नार्हन्ति षोडशीम् ॥

यदृच्छया तन्नैवेद्यं यो भुङ्क्ते साधुसङ्गतः ।

षष्टिवर्षसहस्राणां प्राप्नोति तपसां फलम् ॥

यो निवेद्य हरिं भुङ्क्ते भक्त्या भुक्तश्च नित्यशः ।

किं वा तपस्या सुतरां स हरेस्तेजसा समः ॥

इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३७ अध्यायः ॥

शिवनैवेद्ये विशेषो यथा, बह्वृचगृह्यपरिशिष्टे ।

अग्राह्यं शिवनैवेद्यं पत्रं पुष्पं फलं जलम् ।

शालग्रामशिलास्पर्शात् सर्व्वं याति पवित्रताम् ॥

शालग्रामशिलायां शिवपूजने तद्ग्राह्यम् ।

इत्याह्निकतत्त्वम् ॥ कालिकापुराणे ।

यो यद्देवार्च्चनरतः स तन्नैवेद्यभक्षकः ।

केवलं सौरशैवे तु वैष्णवो नैव भक्षयेत् ॥

वैष्णवपदमन्यदेवोपासकपरम् ।

समानन्त्वन्यनैवेद्यं भक्षयेदन्यदैवतः ।

एतदन्योत्सृष्टपरम् । नन्दिकेश्वरपुराणे ।

दत्त्वा नैवेद्यवस्त्रादि नाददीत कथञ्चन ।

त्यक्तव्यं शिवमुद्दिश्य तदादाने न तत्फलम् ॥

इति शिवदत्ते विशेषः । इत्येकादशीतत्त्वम् ॥

स्वदत्तशिवनैवेद्यस्यापि भक्त्या भक्ष्यत्वमुक्तं यथा,

रोगं हरति निर्म्माल्यं शोकन्तु चरणादकम् ।

अशेषं पातकं हन्ति शम्भोर्नैवेद्यभक्षणम् ॥

इति शाक्तानन्दतरङ्गिणी ॥

शिवनैवेद्यस्याग्राह्यत्वकारणं यथा, --

राधिकोवाच ।

एवम्भूतस्य च विभो ! सर्व्वेशस्य महात्मनः ।

न शस्तं कथमुच्छिष्टं ब्रूहि सन्देहभञ्जन ! ॥

श्रीकृष्ण उवाच ।

शृणु देवि ! प्रवक्ष्येऽहमितिहासं पुरातनम् ।

पापेन्धनानां दहने ज्वलदग्निशिखोपमम् ॥

सनत्कुमारो वैकुण्ठमेकदा च जगाम ह ।

ददर्श भुक्तवन्तञ्च नाथं नारायणं द्बिजः ॥

तुष्टाव गूढैः स्तोत्रैश्च ग्रणम्य भक्तितो मुदा ।

अवशेषं ददौ तस्मै सन्तुष्ठो भक्तवत्सलः ॥

प्राप्तमात्रेण तत्रैव भुक्तं तेनैब किञ्चन ।

किञ्चिद्ररक्ष बन्धूनां भक्षणाय च दुर्लभम् ॥

सिद्धाश्रमे च तद्दत्तं गुरवे शूलपाणिने ।

भक्त्युद्रेकाच्च तत् सर्व्वं भुक्तञ्च प्राप्तिमात्रतः ॥

भुक्त्वा सुदुर्लभं वस्तु ननर्त्त प्रेमविह्वलः ।

पुलकाञ्चितसर्व्वाङ्गः साश्रुनेत्रो मुदान्वितः ॥

गायन्मम गुणं भक्त्या सुकण्ठः पञ्चवक्त्रतः ।

रागभेदैकतानेन तालमानेन सुन्दरम् ॥

पपात डमरुर्हस्तात् शूलञ्च व्याघ्रचर्म्म च ।

स्वयं निपत्य पश्चाच्च रुदन्मूर्च्छामवाप च ॥

अतीवकमनीयैतद्रूपध्यानैकमानसः ।

सहस्रदलमध्यस्थं मां पश्यन् हृत्सरोरुहे ॥

एतस्मिन्नन्तरे देवी दुर्गा दुर्गतिनाशिनी ।

मुदा जगाम शीघ्रं तत् प्रसन्नवदनेक्षणा ॥

रुदन्तं मूर्च्छितं दृष्ट्वा निपतन्तञ्च भक्तितः ।

प्रहस्य वार्त्तां पप्रच्छ कुमारं शूलपाणिनः ।

सर्व्वं तां कथयामास कुमारः संपुटाञ्जलिः ।

श्रुत्वा चुकोप सा देवी शिवं प्रस्फुरिताधरा ॥

तां शप्तुमुद्यतां देवीमुत्थाय च त्रिलोचनः ।

बोधयामास विविधं तुष्टाव संपुटाञ्जलिः ॥

श्रुत्वा मनोहरं स्तोत्रं न शशाप शिवं शिवा ।

दुष्टञ्चक्रे तदुच्छिष्टमभक्ष्यं विदुषामपि ॥

पार्व्वत्युवाच ।

सुचिरञ्च तपस्तप्त्वा मया लब्धस्त्वमीश्वरः ।

त्वया विष्णोः प्रसादेन वञ्चिताहं कथं विभो ।

यतो न दत्तन्नैवेद्यं विष्णोर्मह्यं त्वयाधुना ।

अतो मत्तो गृहाणैतत् फलमेव महेश्वर !

अद्यप्रभृति ये लोका नैवेद्यं भुञ्जते तव ।

ते जन्मैकं सारमेया भविष्यन्त्येव भारते ॥

इत्यक्त्वा पार्व्वती मानाद्रुरोद पुरतो विभोः ।

दृष्टिः पपात तत्कण्ठे नीलकण्ठो बभूव सः ॥

तदा शिवः शिवां भक्त्या कृत्वा वक्षसि सादरम् ।

तन्मानभङ्गं स्तोत्रेण विनयेन चकार ह ॥

करेण चक्षुषोर्नीरं संमृज्य च पुनः पुनः ।

बोधयामास विविधैर्नीतिवाक्यैर्मनोहरैः ॥

परितुष्टा च सा देवी भर्त्तारं समुवाच ह ।

कलेवरञ्च त्यक्ष्यामि नैवेद्येन विना हरेः ॥

विभर्म्मि देहं सततं तव सौभाग्यवर्द्धितम् ।

कथं वहामि सौभाग्यरहितञ्च कलेवरम् ॥

अपूर्ब्बं तव नैवेद्यं जन्ममृत्युजराहरम् ।

कृतं दुष्टं यतस्तस्मात् पश्य देहं त्यजामि च ॥

लिङ्गोपरि च यद्दत्तं तदेवाग्राह्यमीश्वर ! ।

सुपवित्रं भवेत्तत्र विष्णोर्नैवेद्यमिश्रितम् ॥

इत्येवमुक्त्वा सा देवी देहं त्यक्तुं समुद्यता ।

त्रस्तो हरस्तत्पुरतः स्तुत्वा च स्वीचकार ह ॥

इति ब्रह्मवैवर्त्ते श्रीकृष्ण जन्मखण्डे ३७ अः ॥

तत्कारणान्तरं यथा, --

श्रीदेव्युवाच ।

दुर्लभं तव निर्म्माल्यं ब्रह्मादीनां कृपानिधे ! ।

तत् कथं परमेशान ! निर्म्माल्यं तव दूषितम् ॥

ईश्वर उवाच ।

माभैर्मार्भैर्महादेवि ! ज्ञानसारं शृणु प्रिये ।

एतज्ज्ञानं महादेवि ! सारात्सारं परात्परम् ॥

पञ्चभूतात्मकं देवि मुखं मे परिकीर्त्तितम् ।

मध्यस्थानं स्थितं तत्तु तन्मुखं परमेश्वरि ! ॥

श्यामलं तत्तु ईशानं सदा ऊर्द्धं सुचिस्मिते ! ।

कालाग्निरूपिणं तत्तु सर्व्वशक्तिमयं सदा ।

तेजोमयं महेशानि मुखमूर्द्ध्वं वरानने ! ॥

क्षीरोदमन्थने देवि उत्थितं गरलं विषम् ।

उत्थितं गरलं यत्तु ब्रह्माण्डनाशकारकम् ॥

तदेव गरलं देवि हस्ते कृत्वा तु तद्बिषम् ।

कृष्णाञ्जननिभं दिव्यं गरलं जलवत्तदा ॥

मम हस्ते महेशानि आविरासीत् शुचिस्मिते ।

ततः करतलीकृत्य तद्बिषं परमेश्वरि ॥

निपीय तद्बिषं सूक्ष्मं तीक्ष्णं ब्रह्माण्डनाशकम् ।

ततः श्याममुखे देवि न पीत्वा तद्बिषं प्रिये ॥

तद्विषं कण्ठदेशे तु स्थितं हि सर्व्वदा मम ।

ततःप्रभृति देवेशि मुखं ज्वालायते सदा ॥

कण्ठे तु कलुषं भूत्वा सदा तिष्ठति कामिनि ।

ततःप्रभृति देवेशि नीलकण्ठत्वमाप्नुयाम् ॥

ईशानं मन्मुखं देवि परं ब्रह्म वरानने ।

प्रत्यङ्गिरामयं देवि मन्मुखं कमलानने ॥

साक्षात् ज्योतिर्मयी देवी सदा मे मुखसंस्थिता ।

पत्रं वा यदि वा पुष्पं जलं वा वरवर्णिनि ॥

अन्यं हि परमेशानि उपचारं मनोहरम् ।

यो दद्यात् परमेशानि मन्मुखोपरि पार्व्वति ॥

अग्राह्यं तत्तु निर्म्माल्यं साक्षाद्ब्रह्ममयं ततः ।

एतत्तु परमेशानि निर्म्माल्यं यस्तु धारयेत् ॥

स भ्रष्टो जायते देवि निष्कृतिर्नास्ति तत्र वै ।

अग्राह्यं मम निर्म्माल्यं अतएव वरानने ॥

यद्दत्तं मन्मुखे देवि पुष्पं वा पत्रमुत्तमम् ।

तन्निर्म्माल्यं महेशानि ! गृह्णीयात् शिरसा सदा ॥

स ब्रह्मतेजसा तस्य समतां याति सुन्दरि ! ।

न दद्याद्यदि देवेशि ! उपचारं शुचिस्मिते ! ॥

लिङ्गापरि वरारोहे ! यश्च तस्य शुचिस्मिते ।

निगदामि शृणु प्रौढे वचनं मम कामिनि ॥

स एव नारकी भूत्वा नरकं सर्व्वदाप्नुयात् ।

अशेषनरकं भुक्त्वा अशेषयोनिमाव्रजेत् ॥

अशेषस्थावरं देवि जङ्गमञ्च तथा प्रिये ।

भुक्त्वा तु सर्व्वपापान् स अशेषक्रिमितां व्रजेत् ॥

शृणु देवि प्रवक्ष्यामि उच्छिष्टं मम पार्व्वति ।

उपचारं स्थापयित्वा पूतं पात्रान्तरे प्रिये ॥

कृत्वा तु मन्त्रपूतं हि उपचारं निवेदयेत् ।

वामदेवादि देवेशि मुखेषु वरवर्णिनि ॥

भक्षणं मम देवेशि ब्रह्माण्डसृष्टिकारकम् ।

एतद्धि परमेशानि ! ब्रह्मादीनां सुदुर्लभम् ॥

अशुचिर्व्वा शुचिर्व्वापि उच्छिष्टं भक्षयेद्यदि ।

स एव परमाराध्यः साक्षाद्ब्रह्म शुचिस्मिते ॥

उच्छिष्टभक्षणे कामी स एव श्रीसदाशिवः ।

निर्म्माल्यं दृढभक्तित्वाद्गृह्णीयाद्यस्तु पार्व्वति ॥

प्रथमं विष्णवे दत्त्वा विष्णुमन्त्रेण सुन्दरि ।

निर्म्माल्यं मम देवेशि विष्णोर्ग्राह्यं वरानने ॥

देवासुरमनुष्याश्च गन्धर्व्वाः किन्नरादयः ।

ते सर्व्वे परमेशानि वराकाः क्षुद्रबुद्धयः ॥

निर्म्माल्येषु च देवेशि ! अधिकारी कथं भवेत् ॥

इति लिङ्गार्च्चनतन्त्रे । १३ । १४ । पटलः ॥