PURAANIC SUBJECT INDEX

(From Nala to Nyuuha )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE


Nala - Nalini( words like  Nala, Nalakuubara, Nalini etc.)

Nava - Naaga ( Nava, Navaneeta / butter, Navami / 9th day, Navaratha, Navaraatra, Nahusha, Naaka, Naaga / serpent  etc.)

Naaga - Naagamati ( Naaga / serpent etc.)

Naagamati - Naabhi  ( Naagara, Naagavati, Naagaveethi, Naataka / play, Naadi / pulse, Naadijangha, Naatha, Naada, Naapita / barber, Naabhaaga, Naabhi / center etc. )

Naama - Naarada (Naama / name, Naarada etc.)

Naarada - Naaraayana (  Naarada - Parvata, Naaraayana etc.)

Naaraayani - Nikshubhaa ( Naaraayani, Naarikela / coconut, Naaree / Nari / lady, Naasatya, Naastika / atheist, Nikumbha, Nikshubhaa  etc.)

Nigada - Nimi  ( Nigama, Nitya-karma / daily ablutions, Nidhaagha, Nidra / sleep, Nidhi / wealth, Nimi etc.)

Nimi - Nirukta ( Nimi, Nimesha, Nimba, Niyati / providence, Niyama / law, Niranjana, Nirukta / etymology etc. )

 Nirodha - Nivritti ( Nirriti, Nirvaana / Nirvana, Nivaatakavacha, Nivritti etc. )

Nivesha - Neeti  (Nishaa / night, Nishaakara, Nishumbha, Nishadha, Nishaada, Neeti / policy etc. )

Neepa - Neelapataakaa (  Neepa, Neeraajana, Neela, Neelakantha etc.)

Neelamaadhava - Nrisimha ( Neelalohita, Nriga, Nritta, Nrisimha etc.)

Nrihara - Nairrita ( Nrisimha, Netra / eye, Nepaala, Nemi / circumference, Neshtaa, Naimishaaranya, Nairrita etc.)

Naila - Nyaaya ( Naivedya, Naishadha, Naukaa / boat, Nyagrodha, Nyaaya etc.)

Nyaasa - Nyuuha ( Nyaasa etc. )

 

 

नाभि

नाभितः सम्बद्धस्य मणीपूर चक्रस्य संदर्भे रजनीश महाभागः एवं कथयति

तीसरा शरीर मैंने कहा, एस्ट्रल बॉडी है, सूक्ष्म शरीर है। उस सूक्ष्म शरीर के भी दो हिस्से हैं। प्राथमिक रूप से सूक्ष्म शरीर संदेह, विचार, इनके आसपास रुका रहता है। और अगर ये रूपांतरित हो जाएंसंदेह अगर रूपांतरित हो तो श्रद्धा बन जाता है; और विचार अगर रूपांतरित हो तो विवेक बन जाता है। - रजनीश(कुण्डलिनी और सात शरीर व्याख्यानमाला)

वैदिकग्रन्थेषु कुत्रापि प्रत्यक्षरूपेण श्रद्धायाः सम्बन्धं नाभितः नास्ति। केवलं नारदपुराणे १.६६.८९ उल्लेखमस्ति यत् पद्मनाभदेवस्य शक्तिः श्रद्धा अस्ति। श्रद्धायाः नाभितः सम्बन्धने किं न्यायं भवितुं शक्यते। सोमयागे सोमं क्रीत्वा तं शकटे स्थापयित्वा यज्ञवेदीं प्रति आनयन्ति। यजमानपत्नी शकटचक्रस्य नाभ्यां आज्यं सिञ्चति, येन नाभ्यां चक्रस्य घर्षणेन कस्यापि आसुरी वाचः उत्पत्तिः मा भवेत्। यथा चन्द्रमसः संदर्भे कथनमस्ति यत् या पञ्चदश कलाः सन्ति, ताः प्रजापतेः वित्तमस्ति। यः षोडशी कला, सा तस्य आत्मा। न्यूनाधिक रूपेण, यः स्थिति आत्मनः संदर्भे अस्ति, सैव नाभ्यां संदर्भे अपि भवितुं शक्यते। आत्मा संदर्भे कथनमस्ति यत् बाह्येभिः दुःखसुखेभिः आत्मनः कम्पनं न भवेत्, अयं अपेक्षितमस्ति। नाभेः संदर्भेपि अयमेव स्थिति अस्ति वा न वा, अयं विचारणीयः। स्कन्दपुराणे  ५.३.४४.१७ उल्लेखमस्ति यत् नाभीनां गयानाभिः पुण्या अस्ति। गयाप्रदेशस्य गुणमस्ति यत् तत्र गयासुरस्य देहस्य कम्पनं समाप्तं भवति।

व्यावहारिकरूपेण, किमयं सम्भवमस्ति यत् बाह्यसंसारे उच्चावच स्थितिः, अधर्मस्य स्थितिः भवति एवं अन्तस्थलः अस्पृष्टं एव भवति। अयं अपेक्षितमस्ति यत् आत्मनः परितः, नाभ्या परितः अपि श्रद्धायाः साम्राज्यं भवेत्, न अश्रद्धायाः। श्रद्धैव नाभ्याः वित्तं भवेत्।

ऋग्वेदे .१६३.१२ यज्ञीयाश्वस्य संदर्भे कथनमस्ति यत् अजः पशुः अस्य नाभिरस्ति एवं स अजः अश्वस्य पुरः नेनीयते। उपनिषदेषु उल्लेखमस्ति यत् अजः स्थितिः सूर्योदयस्योदयात् पूर्व स्थितिः, गुणानां प्राकट्यात् पूर्वस्थितिः, अनिरुक्त स्थितिरस्ति। सामवेदे हिंकार भक्तिः अनिरुक्तस्थिति उच्यते। किं वैदिकसाहित्ये नाभिः सार्वत्रिकरूपेण अनिरुक्तं एव अस्ति, अयं अनुसंधेयः। ऋग्वेदे १०.१२४.०२ कथनमस्ति यत् अहं अरणीं नाभिं गच्छामि। कर्मकाण्डे अश्वत्थस्य उपरि अरणिः शम्याः अधरारणिं मन्थति। एवंप्रकारेण, एकपक्षतः वित्तम् नाभिं प्रभावयितुं शक्नोति एवं द्वितीय पक्षे नाभिः वित्तं प्रभावयितुं शक्नोति। पुराणेषु, सार्वत्रिक रूपेण नाभितः ऋषभस्य उत्पत्तिः भवति। ऋषभः धर्मस्य अवस्थायाः सूचकः अस्ति, यत्र अधर्मः पृष्ठतः भवति।

प्रथमलेखनम् - आषाढ कृष्ण पञ्चमी, विक्रम संवत् २०७४(१४जून, २०१७ई.)

 

    

 संदर्भाः

वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते।

वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनाँ उपमिद्ययन्थ॥ १.०५९.०१

मूर्धा दिवो नाभिरग्निः पृथिव्या अथाभवदरती रोदस्योः।

तं त्वा देवासोऽजनयन्त देवं वैश्वानर ज्योतिरिदार्याय॥ १.०५९.०२

युयोप नाभिरुपरस्यायोः प्र पूर्वाभिस्तिरते राष्टि शूरः।

अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते॥ १.१०४.०४

अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता।

त्रितस्तद्वेदाप्त्यः स जामित्वाय रेभति वित्तं मे अस्य रोदसी॥ .१०५.०९

उप प्रागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः।

अजः पुरो नीयते नाभिरस्यानु पश्चात्कवयो यन्ति रेभाः॥ .१६३.१२

सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा।

त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः॥ १.१६४.०२

द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम्।

उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात्॥ १.१६४.३३

पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः।

प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः॥ २.००३.०९

सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः।

जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम्॥ २.०४०.०१

दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे।

तावस्मभ्यं पुरुवारं पुरुक्षुं रायस्पोषं वि ष्यतां नाभिमस्मे॥ २.०४०.०४

अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः।

त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम्॥ ३.०१७.०४

अच्छा मही बृहती शंतमा गीर्दूतो न गन्त्वश्विना हुवध्यै।

मयोभुवा सरथा यातमर्वाग्गन्तं निधिं धुरमाणिर्न नाभिम्॥ ५.०४३.०८

अजिरासस्तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम्।

अनन्तास उरवो विश्वतः सीं परि द्यावापृथिवी यन्ति पन्थाः॥ ५.०४७.०२

अयं रोचयदरुचो रुचानोऽयं वासयद्व्यृतेन पूर्वीः।

अयमीयत ऋतयुग्भिरश्वैः स्वर्विदा नाभिना चर्षणिप्राः॥ ६.०३९.०४

वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना।

आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत॥ ८.०२०.१०

यस्मिन्विश्वानि काव्या चक्रे नाभिरिव श्रिता।

त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वाँ अयुक्षत नभन्तामन्यके समे॥ ८.०४१.०६

आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते।

समीचीनाः सुदानवः प्रीणन्ति तं नरो हितमव मेहन्ति पेरवः॥ ९.०७४.०४

इमं त्रितो भूर्यविन्ददिच्छन्वैभूवसो मूर्धन्यघ्न्यायाः।

स शेवृधो जात आ हर्म्येषु नाभिर्युवा भवति रोचनस्य॥ १०.०४६.०३

तद्बन्धुः सूरिर्दिवि ते धियंधा नाभानेदिष्ठो रपति प्र वेनन्।

सा नो नाभिः परमास्य वा घाहं तत्पश्चा कतिथश्चिदास॥ १०.०६१.१८

इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मि सर्वः।

द्विजा अह प्रथमजा ऋतस्येदं धेनुरदुहज्जायमाना॥ १०.०६१.१९

रथानां न येऽराः सनाभयो जिगीवांसो न शूरा अभिद्यवः।

वरेयवो न मर्या घृतप्रुषोऽभिस्वर्तारो अर्कं न सुष्टुभः॥ १०.०७८.०४

अदेवाद्देवः प्रचता गुहा यन्प्रपश्यमानो अमृतत्वमेमि।

शिवं यत्सन्तमशिवो जहामि स्वात्सख्यादरणीं नाभिमेमि॥ १०.१२४.०२

यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः।

अव तस्य बलं तिर महीव द्यौरध त्मना नभन्तामन्यकेषां ज्याका अधि धन्वसु॥ १०.१३३.०५

विश्वे देवा वसवो रक्षतेममुतादित्या जागृत यूयमस्मिन् ।

मेमं सनाभिरुत वान्यनाभिर्मेमं प्रापत्पौरुषेयो वधो यः ॥१.३.१॥

समानी प्रपा सह वोऽन्नभागः समाने योक्त्रे सह वो युनज्मि ।

सम्यञ्चोऽग्निं सपर्यतारा नाभिमिवाभितः ॥३.३०.६॥

येन देवाः स्वरारुरुहुर्हित्वा शरीरममृतस्य नाभिम् ।

तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन तपसा यशस्यवः ॥४.११.६॥

तन् नस्तुरीपमद्भुतं पुरुक्षु ।

देव त्वष्टा रायस्पोषं वि ष्य नाभिमस्य ॥५.२७.१०॥

यो नः सोमाभिदासति सनाभिर्यश्च निष्ट्यः ।

अप तस्य बलं तिर महीव द्यौर्वधत्मना ॥६.६.३॥

सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।

त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥९.९.२॥

द्यौर्नः पिता जनिता नाभिरत्र बन्धुर्नो माता पृथिवी महीयम् ।

उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात्॥९.१०.१२॥

इयं वेदिः परो अन्तः पृथिव्या अयं सोमो वृष्णो अश्वस्य रेतः ।

अयं यज्ञो विश्वस्य भुवनस्य नाभिर्ब्रह्मायं वाचः परमं व्योम ॥९.१०.१४॥

दृढो दृंह स्थिरो न्यो ब्रह्म विश्वसृजो दश ।

नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताः श्रिताः ॥११.७.४॥

त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ।

तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।१३.३.२०

नाभिरहं रयीणां नाभिः समानानां भूयासम् ॥१६.४.१॥

पृथिव्यास्त्वा नाभौ सादयामीति मध्यं वै नाभिर्मध्यमभयं तस्मादाह पृथिव्यास्त्वा नाभौ सादयामीत्यदित्या- १.१.२.२३

अथ व्रतं व्रतयित्वा नाभिमुपस्पृशते । श्वात्राः पीता भवत यूयमापो अस्माकमन्तरुदरे सुशेवाः ता अस्मभ्यमयक्ष्मा अनमीवा अनागसः स्वदन्तु देवीरमृता ऋतावृधा इति ३.२.२.१९

स यावत्किच्च व्रतं व्रतयित्वा नाभिमुपस्पृशेदेतेनैवोपस्पृशेत्कस्तद्वेद यद्व्रप्रदो व्रतमुपोत्सिञ्चेत् - ३.२.२.[१९]

(औदुम्बरी) नाभिदघ्ना भवति । अत्र वा अन्नं प्रतितिष्ठत्यन्नं सोमस्तस्मान्नाभिदघ्ना भवत्यत्रो एव रेतस आशयो रेतः सोमस्तस्मादत्रदघ्ना भवति - ३.३.४.[२८]

(उत्तरवेदी)तां वै युगमात्रीं वा सर्वतः करोति । यजमानस्य वा दशदश पदानि दशाक्षरा वै विराड्वाग्वै विराड्वाग्यज्ञो मध्ये नाभिकामिव करोति समानत्रासीनो व्याघारयाणीति - ३.५.१.[३४]

तद्वा एतदेकं कुर्वन्द्वयं करोति । यदुत्तरवेदिं व्याघारयत्यथ यैषाम्मध्ये नाभिकेव भवति तस्यै ये पूर्वे स्रक्ती तयोर्या दक्षिणा - ३.५.२.[१०]

तद्यदाजिं धावन्ति । इममेवैतेन लोकमुज्जयत्यथ यद्ब्रह्मा रथचक्रे साम गायति नाभिदघ्न उद्धितेऽन्तरिक्षलोकमेवैतेनोज्जयत्यथ यद्यूपं रोहति देवलोकमेवैतेनोज्जयति तस्माद्वा एतत्त्रयं क्रियते - ५.१.५.[१]

 

स ब्रह्मा रथचक्रमधिरोहति । नाभिदघ्न उद्धितं देवस्याहं सवितुः सवे सत्यसवसो बृहस्पतेरुत्तमं नाकं रुहेयमिति यदि ब्राह्मणो यजते ब्रह्म हि बृहस्पतिर्ब्रह्म हि ब्राह्मणः - ५.१.५.[२]

अथोष्णीषं संहृत्य । पुरस्तादवगूहति क्षत्रस्य नाभिरसीति तद्यैव क्षत्रस्य नाभिस्तामेवास्मिन्नेतद्दधाति - ५.३.५.[२३]

 

तद्धैके । समन्तं परिवेष्टयन्ति नाभिर्वा अस्यैषा समन्तं वा इयं नाभिः पर्येतीति वदन्तस्तदु तथा न कुर्यात्पुरस्तादेवावगूहेत्पुरस्ताद्धीयं नाभिस्तद्यदेनं वासांसि परिधापयति जनयत्येवैनमेतज्जातमभिषिञ्चानीति तस्मादेनं वासांसि परिधापयति - ५.३.५.[२४]

तमुपावहृत्योपरिनाभि धारयति तस्योपरि बन्धुः - ६.४.३.[१०]

तमुपरिनाभि बिभर्ति । असौ वा आदित्य एष रुक्म उपरिनाभ्यु वा ऽएषः - ६.७.१.[८]

यद्वेवोपरिनाभि । अवाग्वै नाभे रेतः प्रजापतिस्तेजो वीर्यं रुक्मो नेन्मे रेतः प्रजातिं तेजो वीर्यं रुक्मः प्रदहादिति - ६.७.१.[९]

 

यद्वेवोपरिनाभि । एतद्वै पशोर्मेध्यतरं यदुपरिनाभि पुरीषसंहिततरं यदवाङ्नाभेस्तद्यदेव पशोर्मेध्यतरं तेनैनमेतद्बिभर्ति - ६.७.१.[१०]

 

यद्वेवोपरिनाभि । यद्वै प्राणस्यामृतमूर्ध्वं तन्नाभेरूर्ध्वैः प्राणैरुच्चरत्यथ यन्मर्त्यं पराक्तन्नाभिमत्येति तद्यदेव प्राणस्यामृतं तदेनमेतदभिसम्पादयति तेनैनमेतद्बिभर्ति - ६.७.१.[११]

अथोत्तरतोऽश्वम् । वातस्य जूतिमिति वातस्य वा एष जूतिर्यदश्वो वरुणस्य नाभिमिति वारुणो ह्यश्वोऽश्वं जज्ञानं सरिरस्य मध्य इत्यापो वै सरिरमप्सुजा उ वा ७.५.२.१८

अथोत्तरतोऽविम् । वरूत्रीं त्वष्टुर्वरुणस्य नाभिमिति वारुणी च हि त्वाष्ट्री चाविरविं

-    ७.५.२.२०

अथावेः । इममूर्णायुमित्यूर्णाबलमित्येतद्वरुणस्य नाभिमिति वारुणो ह्यविस्त्वचम्

-    ७.५.२.३५

अथ नाभिदघ्ने । मध्यमिव वै तद्यन्नाभिदघ्नम्मध्यमिवान्तरिक्षलोकस्तद्येऽन्तरिक्षलोकं रुद्राः प्राविशंस्तांस्तत्प्रीणाति - ९.१.१.[१२]

स संध्योरुपस्पृश्य । एते यजुषी जपति तथा द्वे यजुषी त्रीन्परिधीननुविभवतो दिवो मूर्द्धासि पृथिव्या नाभिरिति दक्षिणे विश्वस्य मूर्धन्नधि तिष्ठसि श्रित इत्युत्तरे मूर्धवतीभ्यां मूर्द्धा ह्यस्यैषोऽप्सुमतीभ्यामग्नेरेतद्वैश्वानरस्य स्तोत्रं यद्यज्ञायज्ञियं शान्तिर्वा आपस्तस्मादप्सुमतीभ्याम् - ९.४.४.[१३]

त्रयोदश वै मासाः संवत्सरस्य। त्रयोदशेमे पुरुषे प्राणाः। नाभिस्त्रयोदशी। अत्र तत्समम्। - १२.३.२.२

स आसंदीमास्तृणाति। क्षत्त्रस्य योनिरसि क्षत्त्रस्य नाभिरसि इति। क्षत्त्रस्य वा एषा योनिः। क्षत्त्रस्य नाभिः॥१२.८.३.८॥

अथैनं जानुमात्रे धारयंति। अथ नाभिमात्रे। अथ मुखमात्रे। एष्वेवास्मा एतल्लोकेष्वायतनानि कल्पयति। अभिषेको वा एषः। यत् वाजपेयम्। अभिषेकः सौत्रामणी। तद्यथैवादो वाजपेये यूपं रोहति। तदेवैतत् रूपं क्रियते॥१२.८.३.२०॥

अथोद्गाता ब्रह्माणं पृच्छति  को अस्य वेद भुवनस्य नाभिमिति तं प्रत्याह वेदाहमस्य भुवनस्य नाभिमिति - १३.५.२.[२०]

अथ द्वितीयमुज्ज्वलय्य  नाभिदघ्ने धारयमाणो जुहोति मध्यमिव वै तद्यन्नाभिदघ्नं मध्यमिवान्तरिक्षलोकस्तद्याऽन्तरिक्षलोकं शुगाविशत्तयैवैनमेतच्छुचा समर्धयति कृत्स्नं करोति - १४.३.१.[५]

उत्तरनाभ्या संस्पृष्टम्  प्रथमं प्रवर्ग्यमुत्सादयति वाग्वा उत्तरनाभिः शिरः प्रवर्ग्यः शीर्षंस्तद्वाचं दधाति - १४.३.१.[१६]

नाभिर्ऋतस्य सप्रथा इति  सत्यं वा ऋतं सत्यस्य नाभिः सप्रथा इत्येवैतदाह स नो

विश्वायुः सप्रथा इति स नः सर्वायुः सप्रथा इत्येवैतदाह - १४.३.१.[१८]

एकसाम्नी त्रिष्टुप्। नाभिर् एव सा। तस्याम् एकं साम। तस्माद् एतेनैकम् एव प्राणेन करोति यद् एव प्राणान् उदन्तो ऽनूदनिति॥जै.ब्रा. 1.127॥

नाभिर् वा एतास् तिस्रो विराजः। - १.२४६

तद् व् एवाहुर् यत् स त्रिवृत् स्तोमो गायत्रीं स्कन्दति किं सा ततः प्रजनयतीति। इळान्तं यज्ञं सप्तनाभिम् इति ब्रूयात्। - - - -स एष इळान्तो यज्ञस् सप्तनाभिः। तस्य ह त्रिवृद् एव स्तोमो नाभिर् गायत्री नाभिः पुरोनुवाक्या नाभिर् याज्या नाभिर् वषट्कारो नाभिर् आहुतयो नाभिर् दक्षिणा नाभिः। उप हैनम् एष यज्ञो नमति य एवं वेद॥1.250॥

अथ त्रिष्टुप्। नाभिर् एव सा। तस्याम् एकं साम। तस्माद् एतेनैकम् एव प्राणेन करोति यद् एव प्राणान् उदनतो ऽनूदनिति॥ - १.२५४

यद्य् एनं त्रिष्टुभ्य् अनुव्याहरेद् यज्ञस्य नाभिम् अचीक्लृपं यज्ञमार उदावर्तस् त्वा हनिष्यतीत्य् एनं ब्रूयात्। - १.२५४

अथैतन् मध्येनिधनं द्वितीयं भवति। वाग् वा अनुष्टुप्। तद् वाचो ऽनुष्टुभो मध्ये निधनं भवति। रेतस्सिक्तिर् एव सा। तत् सहिंकारं भवति। नाभिर् वै हिंकारः। नाभ्यो ह वै धृता गर्भा अवाचीनबिलेभ्यो नावपद्यन्ते। नाभिधृता ह वै गर्भाः॥ - १.३०६

प्राणो वै त्रिवृत् स्तोमः। नवैतान्य् अहानि भवन्ति, रात्रिर् दशमी। नव पुरुषे प्राणा, नाभिर् दशमी। प्राणान् एवैतेनाभिजयति, प्राणान् आप्नोति। तद् आहुः - किम् अनु नवरात्र इति। दिश इति ब्रूयात्। दिशो ह वा अनु नवरात्रः। चतस्रो दिशश् चत्वारो ऽवान्तरदेशा, ऊर्ध्वा दिङ् नवम्य्, अर्वाची दशमी। दिश एवैतेनर्ध्नोति। दिक्षु प्रतिष्ठाय स्वर्गं लोकम् एति॥2.316॥

अथैतद् वैराजपृष्ठं दशमम् अहर् भवति। नाभिर् ह सा, तद् वा अतद् आक्षित्सद् अहर् एतेष्व् अहस्सु नियुक्तम्। यस्माद् एतद् आक्षित्सद् अहर् एतेष्व् अहस्सु नियुक्तं, तस्माद् आक्षित्सती नाभिः प्राणेषु नियुक्ता। - २.३६३

यदग्निरिळायास्त्वा पदे वयं नाभा पृथिव्या अधीत्येतद्वा इळायास्पदं यदुत्तरवेदीनाभि ऐ.ब्रा. १.२८

इत्यग्निर्वै देवानां होता तस्यैतद्धोतृषदनं यदुत्तरवेदीनाभि- १.२८

चित्तं मे सहः  ।  - - - -नाभिर्मे चित्तं विज्ञानम्  - तै.ब्रा. २.६.५.

पृच्छामि त्वा भुवनस्य नाभिमित्याह  ।  यज्ञो वै भुवनस्य नाभिः  ।  - ३.९.१.

प्राण आद्यो हृदिस्थाने अपानस्तु पुनर्गुदे । समानो नाभिदेशे तु उदानः कण्ठमाश्रितः ॥ ३५॥  व्यानः सर्वेषु चाङ्गेषु सदा व्यावृत्य तिष्ठति । - अमृतनादोपनिषद

नाभिर्निरभिद्यत ।

नाभ्या अपानः ।

अपानान्मृत्युः । ऐ.उ. १.१.४

देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् ॥ १॥  त्रिकोणं मनुजानां तु सत्यमुक्तं हि साङ्कृते । गुदात्तु द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यन्ङ्गुलादधः ॥ २॥  देहमध्यं मुनिप्रोक्तमनुजानीहि साङ्कृते । कन्दस्थानं मुनिश्रेष्ठ मूलाधारान्नवाङ्गुलम् ॥ ३॥  चतुरङ्गुलमायामविस्तारं मुनिपुङ्गव । कुक्कुटाण्डसमाकारं भूषितं तु त्वगादिभिः ॥ ४॥  तन्मध्ये नाभिरित्युक्तं योगज्ञैर्मुनिपुङ्गव । कन्दमध्यस्थिता नाडी सुषुम्नेति प्रकीर्तिता ॥ ५॥  तिष्ठन्ति परितस्तस्या नाडयो मुनिपुङ्गव । द्विसप्ततिसहस्राणि तासां मुख्याश्चतुर्दश ॥ ६॥ - जाबालदर्शनोपनिषद ४.१

तस्य नाभिमण्डलसंस्थाने उपलक्ष्यते निरतिशयानन्द- दिव्यतेजोराशिः । तन्मध्ये च सहस्रारचक्रं प्रज्वलति । - त्रिपाद्विभूतमहानारायणोपनिषद

नाभिकन्दात्समारभ्य यावद्धृदयगोचरम् ॥ १४८॥  जाग्रद्वृत्तिं विजानीयात्कण्ठस्थं स्वप्नवर्तनम् । सुषुप्तं तालुमध्यस्थं तुर्यं भ्रूमध्यसंस्थितम् ॥ १४९॥  तुर्यातीतं परं ब्रह्म ब्रह्मरन्ध्रे तु लक्षयेत् । - त्रिशिखब्राह्मणोपनिषद

अतसीपुष्पसङ्काशं नाभिस्थाने प्रतिष्ठितम् । चतुर्भुजं महाविष्णुं पूरकेण विचिन्तयेत् ॥ ३०॥  कुम्भकेन हृदिस्थाने चिन्तयेत्कमलासनम् । ब्रह्माणं रक्तगौराभं चतुर्वक्त्रं पितामहम् ॥ ३१॥  रेचकेन तु विद्यात्मा ललाटस्थं त्रिलोचनम् । - ध्यानबिन्दूपनिषद

भूर्लोकः पादयोस्तस्य भुवर्लोकस्तु जानुनि । सुवर्लोकः कटीदेशे नाभिदेशे महर्जगत् ॥ ३॥  जनोलोकस्तु हृद्देशे कण्ठे लोकस्तपस्ततः । भ्रुवोर्ललाटमध्ये तु सत्यलोको व्यवस्थितः ॥ ४॥ - नादबिन्दूपनिषद

एतत्सुदर्शनं महाचक्रं तस्य मध्ये नाभ्यां तारकं यदक्षरं नारसिंहमेकाक्षरं तद्भवति नृसिंहपूर्वतापिन्युपनिषद ५

चतुष्पादन्तर्वर्तिनोऽन्तर्जीवब्रह्मणश्चत्वारि स्थानानि । नाभिहृदयकण्ठमूर्धसु जाग्रत्स्वप्नसुषुप्तितुरीयावस्थाः । आहवनीयगार्हपत्य- दक्षिणसभ्याग्निषु । - परब्रह्मोपनिषद

पावकः शक्तिमध्ये तु नाभिचक्रे रविः स्थितः ॥ ६८॥बन्धमुद्रा कृता येन नासाग्रे तु स्वलोचने । अकारेवह्निरित्याहुरुकारे हृदि संस्थितः ॥ ६९॥  मकारे च भ्रुवोर्मध्ये प्राणशक्त्या प्रबोधयेत् । ब्रह्मग्रन्थिरकारे च विष्णुग्रन्थिर्हृदि स्थितः ॥ ७०॥  रुद्रग्रन्थिर्भ्रुवोर्मध्ये भिद्यतेऽक्षरवायुना । अकारे संस्थितो ब्रह्मा उकारे विष्णुरास्थितः ॥ ७१॥  मकारे संस्थितो रुद्रस्ततोऽस्यान्तः परात्परः - ब्रह्मविद्योपनिषद

अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति नाभिर्हृदयं कण्ठं मूर्धेति । तत्र चतुष्पादं ब्रह्म विभाति । जागरितं स्वप्नं सुषुप्तं तुरीयमिति । जागरिते ब्रह्मा स्वप्ने विष्णुः सुषुप्तौ रुद्रस्तुरीयं ब्रह्मोपनिषद

अथ यथोर्णनाभिस्तन्तुनोर्ध्वमुत्क्रान्तोऽवकाशं लभतीत्येवं वा व खल्वासावभिध्याता ओमित्यनेनोर्ध्वमुत्क्रान्तः स्वातन्त्र्यं लभते मैत्रायण्युपनिषद

हृदि प्राणः स्थितो नित्यमपानो गुदमण्डले ॥ २३॥  समानो नाभिदेशे तु उदानः कण्ठमध्यगः । व्यानः सर्वशरीरे तु प्रधानाः पञ्चवायवः ॥ २४॥ - योगचूडामण्युपनिषद

स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूले षडस्रके । नाभिदेशे स्थितं चक्रं दशारं मणिपूरकम् ॥ १७२॥  द्वादशारं महाचक्रं हृदये चाप्यनाहतम् । तदेतत्पूर्णगिर्याख्यं पीठं कमलसम्भव ॥ १.१७३॥  कण्ठकूपे विशुद्ध्याख्यं यच्चक्रं षोडशास्रकम् । - योगशिखोपनिषद

तत्रैव नाडीचक्रं तु द्वादशारं प्रतिष्ठितम् ।

शरीरं ध्रियते येन वर्तते तत्र कुण्डली ॥ २२॥

 

ब्रह्मरन्ध्रं सुषुम्णा या वदनेन पिधाय सा ।

अलम्बुसा सुषुम्णायाः कुहूर्नाडी वसत्यसौ ॥ २३॥

 

अनन्तरारयुग्मे तु वारुणा च यशस्विनी ।

दक्षिणारे सुषुम्णायाः पिङ्गला वर्तते क्रमात् ॥ २४॥

 

तदन्तरारयोः पूषा वर्तते च पयस्विनी ।

सुषुम्ना पश्चिमे चारे स्थिता नाडी सरस्वती ॥ २५॥

 

शङ्खिनी चैव गान्धारी तदनन्तरयोः स्थिते ।

उत्तरे तु सुषुम्नाया इडाख्या निवसत्यसौ ॥ २६॥

 

अनन्तरं हस्तिजिह्वा ततो विश्वोदरी स्थिता ।

प्रदक्षिणक्रमेणैव चक्रस्यारेषु नाडयः ॥ २७॥

 

वर्तन्ते द्वादश ह्येता द्वादशानिलवाहकाः ।

पटवत्संस्थिता नाड्यो नानावर्णाः समीरिताः ॥ २८॥

 

पटमध्यं तु यत्स्थानं नाभिचक्रं तदुच्यते ।

नादाधारा समाख्याता ज्वलन्ती नादरूपिणी ॥ २९॥ - वराहोपनिषद

नाभिमध्ये च नासाग्रे पदाङ्गुष्ठे च यत्नतः ॥ ४३॥  धारयेन्मनसा प्राणं सन्ध्याकालेषु वा सदा । सर्वरोगविनिर्मुक्तो भवेद्योगी गतक्लमः ॥ ४४॥  नासाग्रे वायुविजयं भवति । नाभिमध्ये सर्वरोगविनाशः । पादाङ्गुष्ठधारणाच्छरीरलघुता भवति । - शाण्डिल्योपनिषद

नाभौ चित्तसंयमाद्भूलोकज्ञानम् ।- शाण्डिल्योपनिषद

नाभिचक्रे कायव्यूहज्ञानम् । - शाण्डिल्योपनिषद

मनःस्थानं गलान्तं बुद्धेर्वदनमहङ्कारस्य हृदयं चित्तस्य नाभिरिति । अस्थिचर्मनाडीरोममांसाश्चेति पृथिव्यंशाः । मूत्रश्लेष्मरक्तशुक्रस्वेदा अबंशाः । क्षुत्तृष्णालस्यमोहमैथुनान्यग्नेः । प्रचारणविलेखनस्थूलाक्ष्युन्मेषनिमेषादि वायोः । कामक्रोधलोभमोहभयान्याकाशस्य । - शारीरकोपनिषद

तृतीयं नाभिचक्रं पञ्चावर्तं सर्पकुटिलाकारम् । तन्मध्ये कुण्डलिनीं बालार्ककोटिप्रभां

तनुमध्यां ध्यायेत् । सामर्थ्यशक्तिः सर्वसिद्धिप्रदा भवति । मणिपूरचक्रं - सौभाग्यलक्ष्म्युपनिषद

 

मृत्‍यु के ठीक उतने ही महीने पहले हारा में, नाभि चक्र में कुछ होने लगता है। हारा सेंटर को क्‍लिक होना ही पड़ता है। क्‍योंकि गर्भ में आने और जन्‍म के बीच नौ महीने का अंतराल था : जन्‍म लेने में नौ महीने का समय लगा, ठीक उतना ही समय मृत्‍यु के लिए लगेगा। जैसे जन्‍म लेने के पूर्व नौ महीने मां के गर्भ में रहकर तैयार होते हो, ठीक ऐसे ही मृत्‍यु की तैयारी में भी नौ महीने लगेंगे। फिर वर्तुल पूरा हो जाएगा। तो मृत्‍यु के नौ महीने पहले नाभि चक्र में कुछ होने लगता है। - रजनीश

मणिपुर चक्र की संभावनाएं:

तीसरा शरीर मैंने कहा, एस्ट्रल बॉडी है, सूक्ष्म शरीर है। उस सूक्ष्म शरीर के भी दो हिस्से हैं। प्राथमिक रूप से सूक्ष्म शरीर संदेह, विचार, इनके आसपास रुका रहता है। और अगर ये रूपांतरित हो जाएंसंदेह अगर रूपांतरित हो तो श्रद्धा बन जाता है; और विचार अगर रूपांतरित हो तो विवेक बन जाता है। - रजनीश

राग - अभोगी भटियार